SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनारमा-तत्त्वबोधिनीसहिता। [११६ हे करिष्यन् । मर्जयिष्यन्वसति। प्रथमासामानाधिकरण्येऽपि कचित् । करिष्यतीति करिष्यन् । ३१०८ पूयजोः शानन् । (३-२-१२८)। वर्तमाने । पवमानः। यजमानः । ३१०६ ताच्छील्यवयोवचनशक्तिषु चानश् । (३२-१२६ ) एषु घोत्येषु कर्तरि चानश् । भोगं भुनानः। कवचं बिभ्राणः । शत्रु निम्नानः । ३११० इधार्योः शत्रकृच्छ्रिणि । (३-२-१३०)। पाया करिष्यन्ती भक्तिरति कर्मधारयः। संबोधने उदाहरति हे करिष्यन्निति । शयि. ध्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् । हेतावुदाहरति अर्जयिष्यन्व. सतीति । प्रथमासामानाधिकरण्येऽपि क्वचिदिति । अप्रथमासामानाधि. करण्याभावेऽपि क्वचिदित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदं च 'लुट् शेषे च' इति भविष्यदधिकारविहित लुट्येव प्रवर्तते इति 'अनवक्लुप्त्यमर्ष-' इत्यत्र भाष्ये स्पष्टम् । पून्यजोः शानन् । पञ्चम्यर्थे षष्ठी । वर्तमाने इति । शेषपूरणमिदम् । 'वर्तमाने लर' इत्यतस्तदनुवृत्तेरिति भावः । लडग्रहणं तु निवृत्तम् । ततश्च एवुलादिवत्स्वत: न्त्रोऽयम नतु शत्रादिवल्लादेशः। तथा च कर्तर्यवायम्, नतु भावकमणोः । नच लादेशत्वाभावे सोमं पवमान इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यम्, 'न लोक-' इति सूत्रे 'तन्' इति प्रत्याहार इत्युक्तत्वात् । ताच्छील्य । चानशि चशावितौ । भोगं भुजान इति । भोगशील इत्यर्थः । कवचं बिभ्राण इति । यौवनबलादिति भावः । शत्रु निघ्नान इति । निहन्तुं शक्ल इत्यर्थः । अतः परत्वाभावान्न मुक् । चानशः लादेशत्वाभावाद् अनात्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः । इधार्योः । विदेः । स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं 'वसोः संप्रसारणम्' इत्यत्र क्वसोरपि सामान्यग्रहणे तत्सामर्थ्याच्च 'एकानुबन्धग्रहणे न धनुबन्धकस्य' इत्येतदपि न प्रवर्तते। पूयजोः। शाननः शकारः सार्वधातुकत्वार्थः, नकारः स्वरार्थः। एवुलादिषत्खतन्त्रो. ऽयं न तु शत्रादिवल्लादेशस्तथाहि सति वेति वाच्यं स्यात्पवते यजते इति तिकोऽपि यथा स्युरिति । न च वासरूपन्यायेन निर्वाहः । लादेशेषु वासरूपविधिर्नास्तीत्याकरे स्थितत्वात् । किंच लादेशत्वे 'लः कर्मणि च-' इति भावकर्मणोविहितं स्यादिति भावकर्मणोरपि प्रयुज्येत इष्यते तु कर्तर्येव । एवं चानशः 'इधार्यो:-' इति शतुश्च स्वातन्त्र्यं बोध्यम् । अत्र केचित् शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुस्तच्चिन्त्यम्, परत्वानित्स्वरप्रवृत्त्या पवमान इत्यादेराद्युदात्तत्वे शाननोऽनु. दात्तत्वस्येष्टत्वात् । नन्वेषां लादेशत्वानङ्गीकारे सोमं पवमान इत्यादौ कर्मणि षष्टी स्यादिति चेन्मैवम् , 'न लोकाः-' इति सूत्रे तृन्निति प्रत्याहारनिर्देश इत्युक्तत्वात् । ताच्छील्य । वचनप्रहणं स्पष्टार्थम् , चानशो लादेशत्वाभावेनात्मनेपदत्वाभावात्परस्मै
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy