SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ ] सिद्धान्तकौमुदी। [पूर्वकृदन्तकियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्वः । शयाना भुजते यवनाः। अजयन्वसति । हरिं पश्यन्मुच्यते। हेतुः फलं कारणं च । 'कृत्यचः' । (सू २८३५)। प्रपीयमाणः सोमः। ३१०४ ईदासः । (७२-८३) प्रासः परस्यानस्य ईरस्यात् । 'प्रादेः परस्य' (स४४ ) पासीनः। ३१०५ विदेः शतुर्वसुः। (७-१-३६) वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विद्वान् , विदन् । विदुषी। ३१०६ तौ सत् (३-२-१२७ ) तौ शतृशानची सत्संज्ञो स्तः । ३१०७ लुटः सद्वा । (३-३-१४)। व्यवस्थित. विभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेस्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः। कारिष्यकिः। कतैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति अर्जयन्वसतीति । अर्जनाय वसती. त्यर्थः । हेतावुदाहरणान्तरमाह हरिं पश्यन्निति । हरिदर्शनेन संसारदुःखान्मुच्यत इत्यर्थः । ननु धनाद्यर्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह । हेतुः फलं कारणं चेति । इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्थापि वासहेतुत्वमिति भावः। प्रपीयमाण इति । अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह कृत्यच इति । ईदासः। आस इति पञ्चमी । श्रानस्येति । 'पाने मुक्' इत्यतस्तदनुवृतेरिति भावः । विदेःशतुर्वसुः। वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणाम शतः परस्मैपदत्वाद् विद्यतेविन्तेवात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी तथापि तस्य न ग्रहणम् 'निरनुबन्धकग्रहणे न सानुबन्धकम्य' इत्युक्तरिति भावः । वा स्यादिति । 'तुह्योस्तातङ्-' इत्यतस्तदनु. तेरिति भावः । विदुषीति । उगित्त्वान्डी, वसोः संप्रसारणम्, पूर्वरूपम् , षत्वम् । तौ सत् । 'लटः शतृशानचौ-' इति सूत्रोपात्तौ शतृशानचौ तच्छन्दः परामशति । तदाह तौ शतृशानचाविति । लुटः सद्वा । लुटः शतृशानचौ वा स्त इत्यर्थः । व्यवस्थितेति । व्याख्यानादिति भावः । नित्यमिति । तेन तिनं निवृत्तिः । अप्रथमासामानाधिकरण्ये उदाहरति करिष्यन्तमिति । प्रत्यये परत उदाहरति करिष्यतोऽपत्यं कारिष्यत इति । उत्तरपदे उदाहरति करिष्यद्भक्तिरिति । हत्वोः । लक्ष्यतेऽनेनेति लक्षणं परिचायकम् । शयाना इति । शौक आत्मनेपदित्वात्परस्य लटः शानच् । अत्र शयनं लक्षणं चिहं पचनकर्तृकभोजनस्य न तु फलं नापि करणमिति हेत्वपेक्षया लक्षणस्य पृथनिदेशः । अर्जेयनिति । अर्ज प्रतियने चुरादिः, अर्जनार्थो वास इत्यर्थः । हरिमिति । हरिदर्शनं मुक्ती कारणमित्यर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy