________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [११७ पश्य । लडित्यनुवर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि कचित् । सन्ब्राह्मणः। 'माझ्याक्रोशे इति वाच्यम्'। (वा २१०६) 'मा जीवन्यः पराव ।दुःखदग्धोऽपि जीवति' । 'माङि लुङ्' (सू. २२१६) इति प्राप्ते एतद्वचनसामर्थ्याब्लट् । ३१०२ संबोधने च। (३-२-१२५)। हे पचन् । हे पचमाग । ३१०३ लक्षणहेत्वोः क्रियायाः। (३-२-१२६) अनुवर्तमाने इति 'धर्तमाने लट्' इति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठया विप. रिमाणेन उतार्थलाभे पतीत्यर्थः । अधिकेति । सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थः । सन् ब्राह्मण इति । 'अस भुवि' शतृप्रत्यये शपो लुक् , श्नसोरल्लोपः । माङीति । माडि प्रयुज्यमाने आकोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः । माजीवनिति । न जोवत्ययम् अनुपकारित्वाद् मृतप्राय इत्यर्थः । मा पच. मान इत्यप्युदाहार्यम् । 'लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह माङि लुङितीति । संबोधने च । लटः शतृशानचाविति शेषः। प्रथमासमानाधिकर. णार्थ श्रारम्भः । पूर्व त्रस्थपुनल ग्रहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् । लक्षणहेत्व: । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणम् , ज्ञापकम् , तदाह क्रियायाः परिचारके इति । धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । चरितार्थत्वात्तदेतदाह अङ्गस्यात इति । प्राचा त्वदन्ताङ्गस्येति व्याख्यातम् । तदयुक्तम् , पचमान इ यादौ 'अदुपदेशाल्लसार्वधातुकमनुदात्तम्' इति शानचः स्वरस्यासिद्धिप्रसङ्गात् । अदनाङ्गस्येति पक्षे हि 'अङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात्' तदवयवमकारं तु व्यवदध्यादेव अकारमात्रभक्तत्वे तु तदवयवत्वान्नास्ति व्यवधानमित्यदोषः । ननु 'स्वरसिधौ व्यञ्जनमविद्यमानवदिति परिभाषया मुकोऽविद्यमानत्वेन व्यवधानाभावात्स्यादेवा नुदात्तत्वमिति चेत् । अत्राहुः-हलः स्वरप्राप्तौ व्यञ्जनमविद्यमानवनान्यत्रेत्याकरारूहम् । न चात्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते । अन्यथा म त्वानित्यादावपि 'हस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वं स्यादिति दिक् । लरिति । यद्यपि प्रथमान्तं प्रकृतम् , तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठया विपरिणम्यत इति भावः । न च 'वर्तमाने लट' इत्यत्रैवोक्तरीत्या विपरिणामोऽस्त्विति शङ्कयम्, प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीति ‘गुप्तिङ्किङ्ग्य सन्' इत्यत्र भाष्यकारैः स्वीकृतत्वात् । प्रथमासामानाधिकरण्येऽपीति । उपलक्षणमिदम् । अप्रथमान्तेन सामानाधिकरण्याभावेऽपीत्यर्थः । तेन कुर्वतोऽपत्यं कौर्वः । कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिध्यति । अ यथा कुर्वतोऽपत्यमित्यादौ तद्धितसमासौ न स्याताम् । लक्षण