SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ ] सिद्धान्तकौमुदी। [पूर्वकृदन्तदभातेः करिडभावश्च । 'तजयस्तेरनाशुषः' इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः । ३०६६ विभाषा गमहनविद. विशाम् । (७-२-६८) एभ्यो वसोलिड वा । जग्मिवान् , जगन्वान् । जनिवान् , जघन्वान् । विविदिवान् , विविद्वान् । विविशिवान् , विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् | वेत्तेस्तु विविद्वान् । 'नेट्वशि कृति' (सू २६८१) इवीरिनषेधः । 'रोच' (वा ४४५२) । ददशिवान्, दरश्वान् । ३१०० लटः शतशानचावप्रथमासमानाधिकरणे ३-२-१२४ ) अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि पंचम्त चैत्र पश्य। ३१०१ आने मुक् । (७-२-८२) भदन्तस्याङ्गस्य मुगागमः स्वादाने परे। पचमानं चैत्रं सवर्णदीर्घः, द्विहल्वाभावान नुट् । 'प्रश्नोतेश्व' इत्यपि न नुट् , श्नुविकरणस्थस्यैव तत्र प्रहणात् । नम उपपदसमासः । 'नलोपो नमः' 'तस्मान्नुडचि' इति भावः । वचेः कर्तरीति । न तु भावकमणोरिति भावः। कानचि यजादित्वात्संप्रसारणं पूर्वरूपं सवर्णदीर्घः। विभाषा गम । 'विभाषा गमहन-' इत्यादि स्पष्टम् । लटः शतशा. नची। 'वर्तमाने लट्' इति पूर्वस्त्रविहितस्यैव एतौ शतृशानचौ। अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये-' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारावितौ । पचन्तमिति । पाकानुकूलव्यापाराश्रयमित्यर्थः, 'क्रियाप्रधानमाख्यातम, सत्त्वप्रधानानि नामानि' इति सिद्धान्तात । शतुः शित्त्वेन सार्वधातुकत्वान् शपि 'अतो गुणे' इति पररूपम् । शानचि शचावितौ। आने मुक् । 'अस्य' इत्यधिकृतम् 'अतो येयः, इति पूर्वसूत्रादनुवृत्तेन षष्ठया विपरिणतेन अता विशेष्यते । तदन्तविधिः । तदाह श्रदन्तस्येति । मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः । इणो द्वित्वे सवर्णदीर्घ बाधित्वा अगत्वाद् 'इणो यण' इति भवति, वसोरिडागमे हि परत्राजादिप्रत्ययस्य सत्त्वात् । वचेरिति । वच परिभाषणे इत्यस्माद् ब्रुवो वचेर्वा कर्तरि न तु भावकर्मणोः । एतच्च निपातनाल्लब्धम् । लग्मिवानित्यादि । इटपक्षे 'गमहन-' इत्युपधालोपः । लटः शतृ । सामानाधिकरण्ये सतीति । यथप्यादेशरहितस्य लटः प्रयोगाभावात्सामानाधिकरण्यं दुर्लभं तथापि शतशानचोस्तद् या स्थानिन्यपि सामानाधिकरण्यं कल्प्यते । शबादीति । शित्त्वेन सार्वधातुकत्वादिति भावः । पचन्तमिति । शतुरुगित्त्वान्नुम् , विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः। पाने मुक् । 'अतो येयः' इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ट्या विपरिणम्यते, आन इति सप्तमीबलात् । न चात इति पञ्चमीबलादान इति सप्तम्यन्तं पदं षष्टया विपरिणम्यतामिति शक्यम् , पञ्चम्याः पूर्वसूत्रे चरितार्थत्वात्सप्तम्याश्चा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy