________________
प्रकरणम् ६६ ] बालमनोरमा-तत्वबोधिनीसहिता | [ ११५ बन्धधीरः' । 'श्रध्युषुषस्तामभवज्जनस्य' । शुश्रुवान् । ३०६८ उपेयिवाननाश्वाननूचानश्च । ( ३-२-१०६) एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड् वा, तस्य नित्यं वसुः । इट् । उपेयिवान् । 'उपेयुषः स्वामपि मूर्तिमप्रयाम्' । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नम्पूर्वा‘अत एकहल्मध्ये–' इत्येत्वाभ्यासलोपो वसोः संप्रसारणम्, पूर्वरूपम्, षत्वम् । अध्यूपुष इति । श्रधिपूर्वाद्वसधातोर्लिटः क्वसुः, यजादित्वद्धातोर्वस्य संप्रसारणम् । पूर्वरूपम्, उस् इत्यस्य द्वित्वम् हलादिशेषः, सवर्णदीर्घः । शसि वसोः संप्रसारणम्, पूर्वरूपम् । शुश्रुवानिति । श्रुधातोर्लिटः क्वसुः द्वित्वम् । उपेयिवान् । इडिति । उपपूर्वादिधातोः लिटः क्वसुः, नित्यत्वाद् द्वित्वम् । वलादिलक्षण इट् 'नेड्वशि कृति' इति प्रतिषिद्धः, स तावत् क्रादिनियमात्पुनरुत्थितः । पुनश्च 'वस्वेकाजाद्ध साम्' इति सूत्रेण एकाचश्च श्रदन्ताच्च वसेश्च परस्य वसोरिट् स्याद् नान्येभ्य इत्यर्थ केन द्वित्वानन्तरमनेकाच्त्वात् प्रतिषिद्धः सोऽयमिड् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् । इटि कृते उत्तरखण्डस्य इकारस्य यण् । अभ्यासस्य दीर्घस्तु न निपात्यते । नन्वत्र अपूर्व एव इड् निपात्यतामित्यत श्राह । उपेयुषीति । उगित्वान्वीपि वसोः संप्रसारणम् । प्रतिप्रसूतो वलादिलक्षण इट् तु न । तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् । अत्र पूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः । उपेत्यविवक्षितमिति । श्रत्र व्याख्यानमेव शरणम् । अश्नातेरिति । 'अश भोजने' नविकरणः, क्रयादिः, लिटः क्वसुः, द्वित्वम् 'श्रत आदेः' इति दीर्घः,
षद् विशरणादौ लिटि धातो:-' इति द्वित्वे 'अत एकहलमध्ये -' इत्येत्वाभ्वासलोपौ 'उगितश्च' इति ढांपि 'वसो :-' इति संप्रसारणे वलादित्वाभावान्नट् । 'सदिरप्रतेः' इति षत्वम् । पुंसि तु निषेदिवान् । अध्यषुष इति । वस निवासे अधिपूर्वः, 'वचिस्वपि-' इति संप्रसारणं द्वित्वहलादिशेषसवर्णदीर्घाः, ङसि भत्वात्संप्रसारणम् । प्रथमैकवचने तु अध्यूषिवान् । उपेयिवानना । इडिति । वलादिलक्षण एवेद् 'नेड्वशि कृति' इति निषिद्धः क्रयादिनियमात्पुनः प्राप्तः ' वस्वेकाजाद्धसाम्' इति सूत्रेण कृतद्वित्वानामेकाचा मादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धो नित्यत्वाद् द्वित्वे कृतेऽनेकाच्त्वात् । न च सवर्णदीर्घेण काच्त्वम्, 'दीर्घ इणः किति' इत्यभ्यासदीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव इति पक्षाश्रयणात् । स एव वलादिलक्षण इड् इह प्रतिप्रसूयते नापूर्वी विधीयते तेन सप्रसारणविषये न भवति । अत एवोदाहरति उपेयुष इति । सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः । श्रविवक्षितमिति । व्याख्यानमेवात्र शरणम् । ईयिवानिति ।