SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ ] सिद्धान्तकौमुदी। [पूर्वकृदन्त. एकाच , मादिवान् । पारिवान् । भात् , ददिवान् । जतिवान् । एषां किम्बभूवान् । ३०१७ भाषायां सदवसभ्रवः । ( ३-२-१०८) सदादिभ्यो भूतसामान्ये भाषायां लिड् वा स्यात् , तस्य च नित्यं कसुः । 'निषेदुषीमासन. नियमोऽयमित्याह । नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्धेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेति इट । आरिवानिति । 'ऋ गतौ' 'ऋच्छत्यताम्' इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् । ददिवानिति । डु दोष दाने। कृते द्वित्वे नायमेकाच । इएिनमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमाग्रहणम् ।जक्षिवानिति । 'लिव्यन्यतरस्याम्' इत्यदेघस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् । भाषायाम् । सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी । पुंस्त्वमेकवचनं चार्षम् । तस्य च नित्यं क्व. सुरिति । वाग्रहणं लिटैव संबध्यते । तस्य वस्तु नित्य इति भाष्ये स्पष्टम् । पक्षे लुङ्, तस्य भूतसामान्ये विहितत्वात् । वाग्रहणाननुवृत्ती तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात, सरूपत्वात् । अस्य च भूतसामान्ये लिटो न तिङ्, अस्य कसोस्तदपवादत्वात् । वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानज्वा' इत्यत्र उकमिति शल्देन्दुशेखरे विस्तरः । निषेदुषीमिति । निपत्सिदेलिटः कसुः द्वित्वम् वसोरिति । नित्यत्वाद् द्वित्वे कृते एकाचत्वमेव नेति कथमिट् स्यादित्यत आह कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः । 'नेड्वशि कृति' इति निषेधं बाधित्वा कादिनियमात्सर्वत्र प्राप्तस्येटो नियमोऽयमित्याह । नान्येषामिति । आदिवानिति । अद् भक्षणे द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्धेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड् भवति। पारिवानिति। ऋ गतौ 'ऋच्छत्य॒ताम्' इति गुणे कृते द्वित्वादिषु पूर्ववत्कृतेष्वयमप्येकाच् । ददिवानिति । डुदाञ् दाने । कृते द्वित्वे नायमेकाच् इरिनमित्तश्चातो लोपो नासति तस्मिन्भवतीत्यनेकाजर्थमाद् प्रहणम् । जक्षिवानिति । 'लिव्यन्यतरस्याम्' इत्यदेघस्लादेशः। द्वित्वे कृते नायमेकाजिति घसिग्रहणम् । अत्र व्याचख्युः-द्वित्वात्पूर्व परत्वाद् 'घसिभसोर्हलि-' इत्युपधालोपः स्यात्तस्मिश्च कृतेऽनच्कत्वाद् द्वित्वमेव न स्यात् । न चास्य द्वित्वे कर्तव्ये 'द्विर्वचनेऽचि' इत्यनेन स्थानिवद्भावो निषेधो वा शयः, द्वित्वनिमित्तस्याचोऽभावात् । ततश्च नायं कृतद्विवचन एका भवतीति घसिग्रहणम्, तत्सामर्थ्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते विडागमे 'गमहन-' इत्युपधालोपस्तस्य चाग्निमित्तत्वेन स्थानिवत्त्वाद् द्वित्वम् । यद्वा 'द्विवचनेऽचि' इति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं पश्चादुपधालोपः 'शासिवसिघसीनां च' इति षत्वं चत्वे चः 'अभ्यासे चर्च' इत्यभ्यासघकारस्य जश्त्वमिति । निषेदुषीमिति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy