________________
प्रकरणम् ६६] बालमनोरमा तत्त्वबोधिनीसहिता। [११३ विति त्रिमुनिमनम् । कवयस्तु बहुलं प्रयुञ्जते । 'तं तस्थिवांस नगरोपकण्ठे' 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि । ३०६६ वस्वेकाजाद्धसाम् । (७२-६७) कृतद्विर्वचनानामेकाचामादन्तानां घसेच वसोरिट् , नान्येषाम् । वर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य प्रह गार्थम् । तेन 'परोक्ष लिट' इति यो लिडविहितः तस्यापि प्रहणार्थः । अन्यथा 'अनन्तरस्य-' इति न्यायेन प्रकृतस्यैव लिटो प्रहणं स्यादिति वृत्ती स्पष्टम् । वाग्रहणं तु पक्ष लिटः श्रवणार्थम् , वासरूपविधि देशेषु नेति ज्ञापनार्थ वा । तत्प्रयोजनं तु 'भाषायां सदवस-' इत्यत्र अनुपदमेव वक्ष्यते । 'कसुश्च' इति तृतीयं सूत्रम् । छन्दसि भूते लिः कसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे कसोरेवानुवृत्त्यर्थः । इमौ कानच्वसू श्रोदशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् । तदाह तस्येत्यादि त्रिमुनिमतमित्यन्तम् । 'विशाषा पूर्वाह्नापराला-' इति सूत्रभाष्ये तु पपुष आगतं पपिवद्रप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचित् कसोः साधुत्वं सूचितम् , तदाह कवयस्त्विति । तस्थिवांसमिति । स्थाधातोः लिटः क्वसुः । द्वितीयकाचने 'अत्वसन्तस्य-' इति दीर्घः । उगित्त्वान्नुम् । अघिजग्मुष इति । अधिपूर्व' गमेलिटः क्वसुः, 'गमहन-' इत्युपधालोपः, शसि वसोः संप्रसारणम् , पूर्वरूपम् , षत्वम् । वस्वे । वसु इत्यविभक्तिको निर्देशः। तथा च व्याख्यास्यति वसोरिति । नित्य त्वाद् द्वित्वे कृते एकाच्त्वमेव नेति कथमिट स्यादित्यत आह कृत. द्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः । 'नेड्वशि कृति' इति निषेधं बाधित्वा क्रादिनियमात् सर्वत्र प्राप्तस्य इटो 'छन्दसि लुङललिटः' इत्यनेन गतार्थता शङ्कया, धातुसंबन्धाधिकारे हि स विधिः । इदं तु धातुसंबन्ध विनापि भवतीति विशेषात् । अत्र व्याचख्युः-कानचः कित्करणं तिस्तिराण इत्यत्र 'ऋच्छत्यताम् ' इति गुणस्य निषेधार्थ सति प्रतिषेधविषये श्रारभ्यते । चक्रण इत्यत्र तु 'असंयोगाल्लिकित्' इत्येव सिद्ध कित्त्वमिति । त्रिम निमतमिति । सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च भाष्यवार्तिकयोरपि क्वसुकान चोः 'छन्दस्युभयथा' इति वचनात्सर्वधातुकत्वेन 'सार्वधातुकमपित्' इति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशय तितीर्वान् तिस्तिराण इत्यादौ 'ऋच्छत्यताम्' इति प्राप्तस्य गुणस्य बाधनार्थ कित्करणमिति सिद्धान्तितः वात् । अतएव कित्करणसामर्थ्याद्भाषायामपि कसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः। कवयस्त्विति। गतानुगतिकतयेति भावः । वस्वे । वस्वित्यविभक्तिको निर्देशस्तथा च व्याख्यास्यति।