SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ ] सिद्धान्तकौमुदी । [ पूर्वकृदन्त क्लः । ( ३-३-११४ ) की बरव विशिष्टे भावे कालसामान्ये क्रः स्यात् । जल्पितम् । शयितम् । इसितम् || ३६१ सुयजोङ्खनि‍ । ( ३-२-१०३ ) सुनो. तेर्यजेश्च ज्वनिप्स्याद् भूते । सुस्वा सुत्वानौ । यश्वा यज्वानौ । ३०६२ जीर्य तेरतृन् । ( ३-२-१०४ ) भूते इत्येव । जरन् जरन्तौ जरन्तः, वासरूपन्यायेन निष्ठाऽपि । जीर्णः जीर्णवान् । ३०६३ छन्दसि लिट् । ३-२-१०५ ) ३०६४ लिटः कानज्वा । ( ३-२-१०६) ३०६५ क्कसुश्च । ( ३-२-१०७ ) इह भूतसामान्ये छन्दसि लिट् । तस्य विधीयमानौ क्कसुकानचावपि छान्दसा , इत्यपि । हृष्टतुष्टौ तथाक्रान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुर मृतः पूर्ववत्स्मृतः । ' इति संग्रहः । कष्टशब्दो भविष्यति, अमृतशब्दो वर्तमाने इत्यर्थः । नपुंसके भावे क्लः । कालसामान्ये इति । अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । अकर्मकेभ्य एव नपुंसके भावे क्लः, न तु सकर्मकाद् इति 'रध्ययने वृत्तम्' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । तदुध्वनयन्नकर्मकेभ्य एवोदाहरति जल्पितमित्यादि । गतं भुक्तमित्यादौ तु श्रविवक्षितकर्मकत्वा अकर्मकत्वं बोध्यम् । श्रत एव गतं इंसस्य, भुक्त मोदनस्येत्यादौ शेषत्वविवक्षया षष्ठीति दिक् । सुयजोंङ्खनिप् । पचम्यर्थे षष्टी । सुनोतेर्यजेश्च ब्वनिबित्यर्थः । भूते इति । अस्य भूताधिकार स्थत्वादिति भावः । सुत्वा स्रुत्वानाविति । ज्वनिपि उपावितौ इकार उच्चारणार्थः । ङित्त्वान्न गुणः । जीर्यतेरन् । भूते इत्येवेति । भूतार्थवृत्तेर्जुधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति । उगित्वान्नुम् । जीर्ण इति । 'ऋत इत्-' रपरत्वम्, 'हलि च' इति दीर्घः, निष्ठानत्वम् । छन्दसि लिट् । लिटः कानज्वा । क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथमसूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवचितमिति भावः । 'लिटः कानज्वा' इति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुशीलित इत्यादि । शील समाधौ रक्ष पालने, क्षमूष् सहने, कुश अह्नाने, जुषी प्रीतिसेवनयोः । सुयजोर्ङ्गनिप् । सुनोतेरिति । पुत्र अभिषवे | यद्यपी सु गतौ, षु प्रसवैश्वर्ययोरिति निरनुबन्धकयोरेव प्रहणं न्याय्यम्, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोर्ग्रहणं न भवतीति भावः । उकारः सुनोतेर्गुणप्रतिषेधार्थः । पकारस्तु स्वरार्थस्तुर्थश्च । यज्वेत्यादि । क्वनिंपि कृते त्वत्र 'वचिस्वपि -' इति संप्रसारणं स्यादिति ङनिबुक्तः । अतृनिति । नकारः स्वरार्थः, ॠ इत् । जरन्निति । ऋकारस्य गुणे रपरोऽकारः 'उगिदचाम् -' इति नुम् । संयोगान्तलोपस्यासिद्धत्वान्न दीर्घः । छन्दसि लिडिति । सूत्रस्यार्थमाह भूतसामान्ये इति । न च
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy