________________
प्रकरणम् ६६ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । | १११
पक्षे श्रासेरकर्मकत्वात्कर्तीरे भावे च । श्रसितो मुकुन्दः । श्रासितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यातः । तेनेदं यातम् । भुजेः कर्मणि, अनन्तेनेदं भुक्रम् । कथं 'भुक्ता ब्राह्मणाः' इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य । ३०८८ जीतः क्लः । ( ३-२-१८७) 'সি चित्रा' चित्रणः । 'जि इन्धी' इदः । ३६८६ मतिबुद्धिपूजार्थेभ्यश्च । ( ३-२-१८८) मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । श्रर्चितः । चकारोऽनुक्तसमुच्चयार्थः । 'शीलितो रक्षितः क्षान्त श्राक्रुष्टो जुष्ट इत्यपि ' इत्यादि । ३०६० नपुंसके भावे
त्रिष्वपि कर्तरि षष्टी । पक्षे इति । श्रधिकरणे प्रत्ययाभावपते इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । सितो मुकुन्द इति । श्रासितवानित्यर्थः । श्रासितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्लः, न तु भावे इत्यर्थः, 'लः कर्मणि च' इत्यत्रादर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्य ‘लः कर्मणि -' इत्यत्रादर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्लाभावस्त्रोक्तत्वादिति भावः । समाधत्ते - भुक्तमस्त्येषामिति । अत्र गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव, श्रविशेषात् 'जर्थं संगतम्' इति सूत्रे 'अनेकमन्यपदार्थे' इति सूत्रे च भाष्ये गत्य
,
यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति । 'वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः 'भूते' इति सूत्रे भाष्ये उक्तत्वादित्याहुः । जीतः क्तः । ञिइत् यस्य तस्माद्वर्त - मानक्रियावृत्तेः क्त इत्यर्थः । ' तयोरेव कृत्यक्त -' इति भावकर्मणोरेव भूते विहितः क्तः वर्तमाने न प्राप्नोतीत्यारम्भः । दिवरण इति । 'आदितश्च' इति नेट् । इद्ध इति । 'श्वीदितः -' इति नेट् । मतिबुद्धि । मति, बुद्धि, पूजा, अर्थ एषामिति विग्रहः । ‘वर्तमाने क्ल' इति शेषः । ‘तयोरेव -' इति भावकर्मणोरेव । मतः । इष्ट इति । इच्छार्थकान्मनेरिषेश्च क्लः। ‘तीषसह -' इति वेदकत्वाद् 'यस्य विभाषा' इति नेट् । शीलितो रक्षित इति । भाष्य स्थश्लोकोऽयम् । इत्यादीति । आदिना 'रुष्टश्च रुषितश्वोभावभिव्याहृत
1
यायतेऽस्मिन्निति यातं मार्गः । भुज्यतेऽस्मिन्निति भुक्तं भोजनस्थानमित्यर्थः । त्रिष्वपि 'अधिकरणवाचिनश्व' इति कर्तरि षष्ठी । दिवरण इति । 'श्रदितश्च' इति नेट् । इद्ध इति । 'श्वीदित:-' इति नेट् नलोपः । राज्ञामिति । 'क्वस्य च वर्तमाने '
,
इति षष्ठी । इष्ट इति । 'तीषसह -' इति वेट्कत्वाद् 'यस्य विभाषा' इति नेट् ।