SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० ] सिद्धान्तकौमुदी। [पूर्वकृदन्तवैकुण्ठमाधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पते प्राप्ता गङ्गा तेनेत्यादि । ३०८७ कोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। (३-४-७६) एभ्योऽधिकरणे कः स्यात् । चायथाप्राप्तम् । ध्रौव्यं स्थैर्यम् । "मुकुन्दस्यासितमिदमिदं यातं रमापतेः। भुक्रमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥" नित्यर्थः । 'अधिशीस्थासाम्' इति शेषः कर्म। अतो नाकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थितवानित्यर्थः । 'अधिशीङ्स्थासाम्-' इति वैकुण्ठः कर्म। अतो नाकर्मकत्वादिह प्राप्तिः। शिवमुपासित इति । शिवं परिचरितवानित्यर्थः । उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनार्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः । हरिदिनमुपोषित इति । 'वसतिक्षुधो:-' इति इट् । यजादित्वात्संप्रसारणम् । 'शासि-' इति षः । हरिदिने न भुक्तवानित्यर्थः । 'उपान्वध्यावसः' इति हरिदिनं कर्म । ततश्चाकर्मकत्वाभावादप्राप्तिः । राममनुजात इति । अनु कृतवानित्यर्थः । अनुसृत्य जातवानिति वा । ततश्चाकर्मकत्वाभावादप्राप्तिः । गरुडमारूढ इति । उपर्याकान्तवानित्यर्थः। विश्वमनुजीर्ण इति । हतवानियतैः : व्यापवानिति वा । अकर्मकत्वाभावादप्राप्तिः। जुधातोः कर्तरि क्तः। 'ऋतः-' इति इत्त्वं रपरत्वं 'हलि च' इति दीर्घः । 'रदाभ्याम्-' इति नत्वम् , णत्वम् । पक्षे इति । कर्तरि प्रत्ययाभावपक्षे इत्यर्थः । नोऽधिकरणे च। ध्रौव्यं गतिः प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्वेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थः। ध्रौव्यमित्यस्य विवरणम् । स्थैर्यमिति । स्थिरीभवनम् , उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । श्रास्यते अस्मिन्नित्यासितम् , आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदा. हरणम् । यायते गम्यते अस्मिन्निति यातं मार्ग इत्यर्थः । भुक्तमेतदनन्तस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः । 'अधिकरणवाचिनश्च' इति इति । प्रपूर्व प्राप्लु व्याप्ती, व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः । ग्लान इति । ग्लै हर्षक्षये अकर्मकोऽयम् । 'आदेच-' इत्यात्वे 'संयोगादेरातः-' इति नत्वम् । शेषमिति । 'अधिशीस्थासां कर्म' इति कर्मत्वम् । अधिष्ठित इति । 'द्यतिस्यति-' इति इत्वम् । उपोषित इति । 'वसतिक्षुधोः-' इतीट् 'शासिवसि-' इति षत्वम् । अनुजीर्ण इति । ष् वयोहानौ 'ऋत इद्धातोः' 'हलि च' इति दीर्घः । नत्वणत्वे । मुकुन्दस्येति । श्रास्यतेऽस्मिनित्यासितमासनमित्यर्थः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy