________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०७ अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चम् । प्रत्तः ।
अवसः ।
'अवेदत्तं विदत्तं च प्रदतं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ।।' चशब्दाद्यथाप्राप्तम् । ३०७६ दस्ति । ( ६-३ - १२४ ) इगन्तोपसर्गस्य त इत्यत्राकार उच्चारणार्थः । अच इत्यावर्तते, एकमुपसर्गविशेषणम् । द्वितीयं तु स्थानिसमर्पकम्, तदाह अजन्तादिति । घोरिति । घोरवयवस्येत्यर्थः । तः स्यादिति । तकारः स्यादित्यर्थः । ददादेशापवादः । चर्त्वमिति । प्रदा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चवैन तकार इत्यर्थः ।
1
अवदत्तं विदत्तं चेति । भाग्यस्थश्लोकोऽयम् । अत्र श्रादिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते । नायम् 'अच उपसर्गात्तः' इत्यस्य अपवाद इति भ्रमितव्यमित्याह चशब्दद्यथाप्राप्तमिति । तथा चावदत्तादिशब्देषु ददादेशोऽपि कदा चिल्लभ्यते इत्यर्थः । अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तः' इत्यस्यावकाशः प्रत्तमवत्तम् इति संगच्छते इति भावः । दस्ति । 'इकः काशे' इत्यत इक इति 'उपसर्गस्य घष्यमनुष्ये-' इत्यत उपसर्गस्येति 'ढलोपे -' इत्यतो दीर्घ इति चानुवर्तते ।
विहितो यो दान्ताद्यादेशः स तकारविघातकत्वादिविधेर्निमित्तं न भवतीति भावः । श्रच उपसर्गात्तः । तकारादकार उच्चारणार्थः । अच इत्यावर्तते तत्रैकं पञ्चम्यन्तमुपसर्ग विशिनष्टि । अपरं षष्ठयन्तं स्थानलाभायेति व्याचष्टे, अजन्तादित्यादिना । यद्वा च इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकालत्वात्सर्वस्य घोर्भविष्यति, एकतकारो हि 'अलोऽन्त्यस्य' इति बाधित्वा 'आदेः परस्य' इत्यादेरेव स्यादच इति पञ्चमीनिर्देशात् । यद्येवम् 'अपो भि' इत्युत्तरसूत्रे ऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत् । अत्राहुः - पञ्चम्यन्तस्याच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यति तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्त्वेन सिद्धमिष्टमिति । श्रवदत्तमित्यादि । श्रादिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं नेतरेषामसंभवात् । दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्यैवार्थः । इष्यते इति । तादेशबाधनार्थं निपातनमिष्यत इत्यर्थः । अन्ये तु श्रवादीनामुपसर्गप्रतिरूपकत्वाश्रयणे व्यवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गत्वाश्रयणे तु पूर्वोक्तमवत्तमित्यादीति नापूर्वमिदं वचन - मित्याहुः । दस्ति । 'इकः काशे' इत्यत इक इति ' उपसर्गस्य घञि -' इत्यत उपसर्गस्येति 'ठूलोपे पूर्वस्य-' इत्यतो दीर्घ इति चानुवर्तते 'अलुगुत्तरपदे' इत्यतोs - नुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषण' यस्मिन्विधिः -' इति तदादिविधिस्तदेतत्सकलम