________________
१०६ ] सिद्धान्तकौमुदी। [पूर्वकृदन्त४२) तादौ किति । अभिहितम् । निहितम् । ३०७७ दो दद्धोः । (७-४-४६) घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति | चर्वम् । दत्तः । घोः किम्दातः। तान्तो वायमादेशः । न चैवं विदत्तमित्यादावुपसर्गस्य 'दस्ति' (१९०७१) इति दीर्धापत्तिः, तकारादौ तद्विधानात् । दान्तो वा । धान्तो वा। न च दान्तवे निष्ठानस्वम् , धान्तत्वे 'झषस्तथो:-' (सू २२८०) इति धरवं शङ्कयम् , संनिपातपरिभाषाविरोधात् । ३०७८ अच उपसर्गात्तः। (७-४-४७) रिति भावः । दो दरोः। द इति षष्ठयन्तम् , तदाह दा इत्यस्येति । दथ् इति च्छेदः, तदाह दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति । ति कितीत्यनुवृत्तरिति भावः । चत्वमिति । 'खरि च' इति थकारस्य तकार इत्यर्थः । दात इति । दाप्दैपो रूपम् । अदाप् इत्युक्तेः घुत्वाभावान दद्भावः । तान्तो वेति । तवर्गप्रथमान्त इत्यर्थः । नन्वेवं सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वापतिः, तत्र हि द इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गस्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्कय निराकरोति न चैवमिति । श्रादेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थः । तकारादाविति । दस्ति' इत्यत्र द इति षष्ठीतीत्यत्रान्वेति । तथा च इगन्तोपसर्गस्य दीर्घः स्याद् दादेशतकारादावुत्तरपदे इत्यर्थः, उत्तरपदाधिकारात् । ततश्च उत्तरपदस्यात्र तकारादित्वाभावाद् न दीर्घ इति भावः। दान्तो वा धान्तो वेति । तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति । दान्तत्वे निष्ठानत्वम् , धान्तत्वे 'झषस्तथोः-' इति धत्वं च न शङ्कयमित्यन्वयः । संनिपातेति । दान्तादेशस्य धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वासंभवादिति भावः । अच उपसर्गात्तः। वृत्तयङ्लुकि न । दाधितः। अत्रापि प्रसादकृता रितपा निर्देशस्य यक्लुनिवृत्त्यर्थत्वादाधीत इति 'घुमास्था-' इतीत्वमुदाहृतम् , तत्पूर्ववदेव हेयम् । दो दद्धोः । इहादेशः थान्त एव न तु तदधान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायो दोषादिति प्रायः। तथा चाहुः-'तान्ते दीर्घत्वाख्यो दोषो दान्ते दोषो निष्ठानत्वम् । धान्ते दोषो धत्वाख्यः स्यानिर्दोषत्वात् थान्तो प्रायः' इति तदनुसारेणाह। दथ स्यादिति । दात इति । दाप लवने । अदाविति निषेधान्न घुत्वम् । इह सर्वे पक्षाः सापवादा इत्याह तान्तो वेत्यादिना । दीर्घापत्तिरिति । विदत्तमित्यादावुपसर्गस्येत्यर्थः । दस्तीत्यत्र द्वौ पक्षौ दा इत्यस्य य आदेशः स तकारान्तस्तकारादिति, तत्राये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति । तकारादाविति । निष्ठानत्वमिति । 'रदाभ्याम्-'इत्यनेन । सन्निपातेति । तादि निमित्तीकृत्य