SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्वबोधिनीसहिता । [ १०५ याम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र ध्यानः, पीनः स्वेदः । 'सोपसर्गस्य न' ( वा २०६२ ) प्रध्यानः । ' श्राङ्पूर्वस्यान्धूधसोः स्यादेव' ( वा ३४६१ ) प्रापीनोऽन्धुः । प्रापीनमूधः । ३०७३ ह्रादो निष्ठायाम् । ( ६-४-६५) हस्वः स्यात् । प्रहनः । ३०७४ द्यतिस्यतिमास्थामिति किति । ( ७-४-४०) एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईस्वदन्द्भावयोरपवादः । दितः । सितः । मा, माङ्, मेड्, मितः । स्थितः । ३०७५ शाच्छोरन्यतरस्याम् । ( ७-४-४१) शितः, शातः । छितः, छातः । व्यवस्थितविभाषात्वाद् व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । | सम्यक् संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकय नवानित्यर्थः । ३०७६ दधातेर्हिः । (७-४इत्यतो विभाषेति 'स्फायः स्फी' इत्यतो निष्ठायामिति चानुवर्तते इति भावः । व्यवस्थितविभाषेति । अत्र व्याख्यानमेव शरणम् । 'सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् । ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । शेषपूरणमिदम् । 'खचि ह्रस्वः' इत्यतस्तदनु त्तेरिति भावः । प्रहृन्न इति । 'हादी सुखे' क्तः । 'श्वीदितः -' इति नट् ।' रदाभ्याम् -' इति नत्वम् । द्यतिस्यति । एषां चतुर्णां द्वन्द्वात् षष्ठी । 'दो श्रवखण्डने ' इत्यस्य द्यतीति निर्देशः । ' षो अन्तकर्मणि' इत्यस्य तु स्यतौति निर्देशः । इत् ति कितीति च्छेदः । ईत्वेति । 'घुमास्था-' इति ईत्वस्य 'दो दो:' इति दद्भावस्य च यथासंभवमपवाद इत्यर्थः । दो धातोरुदाहरति दित इति । मा माङ् मेङिति । 'गामादाग्रहणेष्वविशेषः' इति वचनादिति भावः । शाच्छो: । 'शो तनूकरणे' 'छो छेदने' अनयोः कृतात्वयोर्निर्देशः । अनयोरिका रोन्तादेशो वा स्यात् तादौ कितीत्यर्थः । व्यवस्थितेति । एतच्च भाष्ये स्पष्टम् । दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् । 'द्यतिस्यति -' इत्यतस्तदनुवृत्ते सोपसर्गस्य नेत्यादि । अन्धुः कूपः । प्रह्नन्न इति । ह्रादी सुखे, ईदित्त्वादिडभावे ' रदाभ्याम् -' इति नत्वम् । द्यतिस्यति । दोऽवखण्डने षोऽन्तकर्मणि, मा माङ माने, मेङ् प्रणिदाने, ष्ठा गतिनिवृत्तौ । श्तिपा निर्देशो धातुविशेणार्थः । न हि शितपं विना श्यन् सुलभः । यत्तु प्रसादकृतोक्तम् 'श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः' 'दादत्तः सासातः' इति । तन्न । यङ्लुकि हि इटा भाव्यं दादितः साखित इति । तत्र ति कितीति वचनान्नास्ति प्रसङ्गः । किं च 'दो दद्धोः' इति विधीयमान आदेशः अनेकाल्त्वात्सर्वस्येति निर्विवादम् । तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाहृतरूपं कथमुक्तिसंभवं लभेतेत्याहुः । शाच्छो । शो तनूकरणे । छो छेदने । दधातेर्हिः । श्तिपा निर्देशो घेटो निवृत्यर्थः । तीत्यनु "
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy