________________
१०४] सिद्धान्तकोमुदी। [ पूर्वकृदन्तवरितः । अस्यादित्वे फलं मन्दम् । संघुष्टः, संघुषितः । भास्वतः, आस्वनितः । ३०७० हुषेर्लोमसु । (७-२-२६) हृषेर्निष्ठाया इड् वा स्यात् बोमसु विषये । इष्टषितं लोम । 'विस्मितप्रतिघातयोश्च' (वा ४४.७)। हृष्टो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु 'हषु अलोके' उदित्वानिष्ठायां नेट् । 'हष तुष्टौ' इट् । ३०७१ अपचितश्च । (७-२-३०) चायेनिपातोऽयं वा। अपचितः, अपचायितः । ३०७२ प्यायः पी । (६-१-२८) पी वा स्यानिष्ठाइति नित्यमिरिनषेधे प्राप्ते विकल्पोऽयम् । आदित्त्वस्य तु फलमात्मनेपदमात्रम् , तदाह अस्य आदित्वे फलं मन्दमिति । तथा च ‘एध वृद्धौ' इत्यादिवद् हस्वानुबन्धत्वमेव न्याय्यमिति भावः । संघुष्टः, संघुषित इति । 'घुषिरविशब्दने' "इति घुषेः संपूर्वस्य नित्यमिरिनषेधे प्राप्ते विकल्पोऽयम् । आस्वान्तः, आस्वनित इति । श्रापूर्वस्वनेः क्तः । इडभावपले 'अनुनासिकस्य-' इति दीर्घः । 'क्षुब्धस्वान्त-' इति निपातनं तु आपूर्वस्य स्वनेनं भवति, परत्वादस्येव विकल्पस्य प्राप्तेरित्याहुः । 'न वा-' इति सूत्रभाष्ये तु संघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् । हृषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं च 'अजर्यम्' इति सूत्रे भाष्ये स्पष्टम् । हृष्टम् , हृषितं लोमेति । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् । 'हृषेनिष्ठाया इड् वा' इति शेषः । उदित्वादिति । 'उदितो वा' इति क्त्वायां वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे हृष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । 'हृष तुष्टौ' इति धातोः ते इडेव भवतीत्यर्थः। इषित: तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद् वृतिः। तत्र लोमसु विस्मितप्रतिघातयोश्च 'हृषु अलीके' इत्य. स्माद् 'यस्य विभाषा' इति नित्यमिरिनषेधे प्राप्ते विभाषेयम् , 'हृष तुष्टौ' इत्यस्मात्तु नित्यमिटप्राप्तौ विभाषा इति विवेकः । अपचितश्च । 'अपपूर्वस्य चिनो ण्यन्तस्य निष्ठायां चिभावो निपात्यते' इति भाष्यम् । तदाह-चायेनिपातोऽयमिति । प्यायः पी। वा स्यानिष्ठायामिति । शेषपूरणमिदम् । 'विभाषाभ्यवपूर्वस्य' सिध्यत्येवेत्याशयेनाह । फलं मन्दमिति । संघुष्ट इति । संपूर्वाद् घुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम् । अविशब्दनेऽपि संपूर्वस्य परत्वादयं विकल्प एव। आस्वान्त इति । अापूर्वस्य खनेर्मनोभिधानेऽप्ययमेव विकल्पः स्यात् । आस्वान्तं मनः । प्रास्वनितं मन इति । हृषेः। हृषु अलीके । उदित्त्वान्निष्ठायामनिट् , हृष तुष्टौ सेट। उभयोरपि ग्रहणयित्युभयत्र विभाषेयम् । पीनमिति । भोदित्त्वान्निष्टानत्वम् । प्यान इति । 'श्वीदितो निष्ठायाम्' इतीडभावे यलोपः । नत्वे व्यवस्थान्तरमाह