________________
प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [ १०३ ३०६८ वा दान्तशान्तपूर्णर्दस्तस्पष्टच्छन्नलताः । (७-२-२७) एते णिचि निष्ठान्ता वा निपात्यन्ते । पले, दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञापितः। ३०६६ रुष्यमत्वरसंघुषास्वनाम् । (७-२ २८) एभ्यो निष्ठाया इड् वा स्यात् । रुष्टः, रुषितः । प्रान्तः, अमितः । पूर्णः, वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । 'णेरध्ययने वृत्तम्' इत्यतो रि• त्यनुवर्तते । 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते । 'अनुनासिकस्य-' इति दीर्घः। णिलोपस्तु न स्थानिवत् , निपातनाद्दीर्घविधौ तनिषेधाच्च । दान्तः । शान्तः । 'पूरी आप्यायने' एयन्तात् कः, इडमावो निपात्यते, णिलोपः, रात्परत्वानत्वम् , णत्वम् , पूर्णः। एतेन 'न ध्याख्यापृमूछि-' इत्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम् , पूरीधातोर्यन्तात् पूर्णरूपार्थत्वात् । 'दसु उपक्षये' ण्यन्ताद् इडभावो निपात्यते, उपधावृद्धयभावश्च, णिलोपः। 'स्पश बाधने' एयन्तात् क्त इडभावो निपात्यते उपधावृद्धयभावश्च, णिलोपः, स्पष्टम् । 'छद अपवारणे' ण्यन्तात् कः। इडभावो वृद्धयभावश्च निपात्यते । णिलोपः, 'रदाभ्याम्-' इति नत्वम् , छन्नः । 'ज्ञप मिञ्च' इति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति निपातनाभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्धस्वः । शापित इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव । रुष्यमत्वर । रुषि, श्रम, त्वर, संघुष , श्रास्वन् एषां द्वन्द्वः। णेरिति निवृत्तम् । पञ्चम्यर्थे षष्ठी, तदाह एभ्य इति । वा स्यादिति । 'वा दान्त-' इत्यतस्तदनुवृत्तेरिति भावः । रुष्टः, रुषित इति । 'तीषसह-' इति रुषो वेदकत्वाद् 'यस्य विभाषा' इति निषेधे प्राप्ते विकल्पोऽयम् । आन्तः, अमित इति । 'अम गत्यादिषु' क्तः । इडभावपक्षे 'अनुनासिकस्य-' इति दीर्घः । तूर्णः, त्वरित इति । 'मि त्वरा संभ्रमे कः, इडभावपक्षे 'ज्वरत्वर ' इत्यूट । 'रदाभ्याम्-' इति नत्वम् , णत्वम् ।'आदितश्च' अन्यत्त्विति ! शाकादि श्रपितमिति णौ मिता हखः । वा दान्त । शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च । दसु उपक्षये, स्पश बाधने, छद अपवारणे । ज्ञपिर्मित , मित्संज्ञायां मारणतोषणनिशामनेष्वित्युक्तः । रुष्य । रुष रोषे 'तीषसह-' इति विकल्पितटकत्वाद् 'यस्य विभाषा' इति नित्ये निषेधे प्राप्ते विकल्पो विधीयते । श्रम गत्यादिषु । अम रोगे इति चौरादिकस्तु न गृह्यते 'एकाचः- 'इत्यधिकारादित्याहुः । प्रान्त इति । 'अनुनासिकस्य-' इति दीर्घः । तूर्ण इति । मित्वरा संभ्रमे, 'ज्वरत्वर-' इत्यूठ निष्ठानत्वम् । 'आदितश्च' इति निषेधे प्राप्ते विकल्पः । एवं च श्रादित्त्वस्य फलमात्मनेपदमात्रं तच एधत्यादिवद्धवानुबन्धत्वेऽपि