________________
१०२] सिद्धान्तकौमुदी। [पूर्वकृदन्त. मर्दितोऽन्यः । ३०६५ अभेश्चाविदूर्ये । (७-२-२५) अभ्यर्णम् । नातिदूरमासर्व वा। अभ्यर्दितमन्यत् । ३०६६ णेरध्ययने वृत्तम् । (७-२-२६) एयन्ताद् वृतेः कस्येडभावो णिलुक्चाधीयमानेऽथे वृत्तं छन्दः, छात्रेण संपादितम् , अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जुः। ३०६७ शृतं पाके। (६-१-२७) श्रातिपयस्योः के भावो निपास्यते पीरहविषोः पाके। शृतं सीरम् , स्वयमेव विविध पकं वेत्यर्थः । वीरहविर्तामन्यत्तु श्राणं अपितं वा। च नत्यम् , णत्वम् । अभेश्चाविदूर्थे । अविदूरस्य भाव प्राविदूर्यम् । तस्मिन् गम्ये अमेः परः अदिरनिट्क इत्यर्थः । सामीप्य इत्येव तु नोक्कम् . अनतिदूरस्य असंग्रहापत्तेः । तत्सूचयन्नाह नातिदूरमिति । णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः । शृतं पाके । 'श्रा पाके' घटादिः । तस्माद्धेतुमरिणचि पुकि मित्त्वाभ्रस्वे श्रपि इति भवतीति स्थितिः। श्रातिपयत्योरिति । अण्य. न्तस्य ण्यन्तस्य च श्राधातोरित्यर्थः । क्षीरहविषोरिति । एतच्च वार्तिकाल्लभ्यते । अण्यन्तं व्याचष्टे स्वयमेव विक्लिन्नमिति । श्राधातुरण्यन्तः पाके वर्तते । पाकश्चात्र विवित्तिरेव विवक्षिता। न तु तदनुकूलव्यापारोऽपि । तथा च श्राधातोवि. क्लित्तावकर्मकत्वाद् ‘गत्याकर्मक-' इति कर्तरि कः । तथाच क्षीरं विक्लित्याश्रय इति फलितम् । ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् श्रपि इत्यस्मात् कर्मणि प्रत्यये फलितमाह पक्कमिति । एतच्च भाष्यकैयटयोः स्पष्टम् । 'क्षीराज्यहविषां भृतम्' इत्यमरस्य तु प्रमाद एव, क्षीरहविषोः-' इति वार्तिकविरोधात् । इति निषेधो न भवति । सामीप्य इत्येव तु नोक्तं नातिदूरस्यासंग्रहापत्तेः, तदेतध्वनयन्व्याचष्टे नातिरं मासन्नं वेति । एवं च सामीप्य इति प्राचो व्याख्यानमुपलक्षणतया नेयमित्याहुः। णेः। अधीयत इति अध्ययनम् । 'कृत्यल्युटः' इति बहुलवचनात्कर्मणि ल्युट् । णिलुक् चेति । निपात्यत इति शेषः । लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः। शृतम् । श्रातिश्रपयत्योरिति । श्रा पाके इत्यदादौ पठ्यते चुरादावपि घटादिष्वपि पठयते मित्त्वार्थम् । भै पाक इति च भ्वादौ तस्यापि कृतात्वस्येह प्रहणम् । निपातनसामर्थ्यालक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः । शृभावो निपात्यत इति । 'व्यः संप्रसारणम्-' इति प्रकृतमेव संप्रसारणं न विहितम् । श्रयतेरपि श्रितमेव यथा स्यादिति । अत्र 'विभाषाभ्यवपूर्वस्य' इति विभाषानुवर्तते सा च व्यवस्थिता तेन चीरहविषोरेव भभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह क्षीरहविषोः पाक इति ।