________________
ε६ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
( ८-२-२६) मलः परस्य सस्य लोपः स्याज्झलि । श्रद्धाम् असैरसुः । असस्सीः असैद्धम् असेद्ध । असैस्सम् असैत्स्व असैरस्म । पक्षे असेधीत् अधिष्टामित्यादि । खाह ४६ भक्षणे । ऋकार इत् । खादति । चखाद | खद २० स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्येऽकर्मकः खटति । २२८२ श्रत उपधायाः । ( ७-२ - ११६ ) उपधाया तो वृद्धिः स्याद् ञिति णिति च प्रत्यये पर । चखाद | २२८३ लुत्तमो वा । ( ७ - १६१ ) उत्तमो यत्रा णित्स्यात् । चखाद, चखद । २२८४ तो हलादेर्लघोः । ( ७-२-७ ) ईट्, 'वदन्रज-' इति वृद्धिः । धकारस्य चर्त्वम् । श्रसैध् स समिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च 'इट ईटि' इति सिचो लोपे प्राप्ते । झलो झलि । झल इति पञ्चमी । 'संयोगान्तस्य -' इत्यतो लोप इति, 'राम्भस्य' इत्यतः सस्येति चानुवर्तते, तदाह झलः परस्य सस्य लोपः स्यादिति । श्रसैद्धामिति । असैध स् तामिति स्थिते सलोपे धत्वे जश्त्व च रूपम् । पक्ष इति । इट्पक्ष इत्यर्थः । असेधीदिति । 'इट ईटि' इति सलोपः । 'नेटि' इति वृद्धिप्रतिषेधः । लघूपधगुणः । खाद्य इति । अत्र ऋदित्वं 'नाग्लोपि -' इत्याद्यथमित्यभिप्रेत्याह ऋकार इदिति । खदेति । स्थैर्यं स्थिरीभवनम् । णलि अजन्तत्वाभावाद् 'अवो ञ्णिति' इति वृद्धेरेप्राप्तौ । अत उपधायाः । वृद्धिः स्यादिति । 'मृजेवृद्धि ' इत्यतः तदनुवृत्तेरिति भावः । ञिति णिति चेति । श्रचो णिति' इत्यत तदनुष्टनेरिति भावः चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः । पित्त्व कित्त्वाद् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वाच्च । लुत्तमः । णित् स्यादिति । गोतो णित्' इत्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्वे उपधावृद्धिः । तदभावे न । तो हलादेः । 'सिचि वृद्धिः परम्मैपदेषु' इत्यनुवर्तते । नेटि' इत्यस्मादिटीति
1
1
ईडागमः । वदब्रज - इति वृद्धिः । ततश्चर्त्वम् । झलो झलि । संयोगान्तस्य -' इत्यतो लोप इति, 'रा सस्य' इत्यतः सस्येति चानुवर्तते तदाह सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यास सर्कलो झलि सस्येति निर्दिष्टानां त्रयाणा मेकपद सम्बन्धित्वे लोपोऽयम् । तेन सोमसुत्स्थानमित्यत्र न भवति । झलः किम्, अष्टाम् । झलि किम् असैत्सीत् । असेधीदिति । 'नेटि' इति वृद्धिप्रतिषेधः । गुणः । खाह भक्षणे । ऋकार इदिति । तेन 'नाग्लोपि--' इति निषेधे चखादत् । अत उप । अतः किम् तुतोद । उपधायाः किम् गणयति । इह तो लोप बाधित्वा परत्वाद् वृद्धिः स्यात् । अतो हलादेः । इह 'सिचि वृद्धि:-' इति सूत्रमनुवर्तते । 'नेटि' इति सूत्रादिटि इति 'ऊर्णोते विभाषा' इत्यतो विभाषाग्रहणं च
"