________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ६७
9
हलादेर्लघोरकारस्येडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । श्रखादीत् श्रखदीत् । बद ५१ स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद, बबद । श्रबादीत्, अबदीत् । गद ५२ व्यक्तायां वाचि । गदति । २२८५ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोति देग्धिषु च । ( ८ -४ -१७ ) उपसर्गस्थानिमित्तात्परस्य नेर्णः स्याद्गदादिषु । 'ऊर्णोतेर्विभाषा' इत्यतो विभाषेति च । तदाह हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थम्, इलः परस्येत्येव सिद्धेः । अखादीत् श्रखदीत् इति । वृद्धौ तदभावे च 'इट ईटि' इति सिज्लोपः । अखादिष्टाम् अखदिष्टामित्यादि । बदेति । स्थैर्यं स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यथः । नतु दन्त्योष्ठयादिरिति भावः । बबादेति । 'अत उपधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । श्रकित्त्वेपि 'थलि च सेटि' इत्येत्वाभ्यासलोपौ, बेदधुः बेद । अथ उत्तमपुरुषलि 'लुत्तमो वा' इति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याद बबाद बबदेति । बेदिव बेदिम । अबादीत्, अबदीत् इति । 'अतो हलादे:-' इति वृद्धिविकल्पः । गदेति । व्यक्तवाङ् मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः जगदुरित्यादि । नेर्गद । 'रंषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि - ' इत्यत उपसर्गादिति च । तच्च तदाह इडादावित्यादि । अतः किम् अदवीत् । हलादेः किम्, मा भवानतीत्, अटीत् । लघोः किम्, अगर्दीत्, अरक्षीत् । इडादौ किम् अपाक्षीत् । परस्मैपदे किम्, अयतिष्ट, श्रयतिषाताम् । श्रचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाय 'येन नाव्यवधानम् -' इति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् । पवर्गीयादिरिति । दन्त्योष्ठपादित्वे तु 'न शसदद-' इत्येत्वाभ्यासलोपनिषेधाद् बेदतुः बदिथेत्यादि न सिध्येदिति भावः । नेर्गदनद । गदादीनां चतुर्णां शपा निर्देशः स्यत्यादीनामेकादशानां श्तिपा निर्देशश्च यङ्लुङ्निवृत्त्यर्थः । तेन प्रनिजागदीति, प्रनिनानदीति, प्रनिसासेति, प्रनिजङ्घनीति इत्यादौ णत्वं न । घुशब्देन घुसंज्ञका दाधादयः षड् गृत्यन्ते । डुदाञ् प्रणिददाति । दाण् प्रणियच्छति । दो प्रणियति । देङ् प्रणिदयते । धट् प्रणिधयति । डुधाञ् प्रणिदधाति । माशब्देन मेङ्माङोरेव ग्रहणम् । घुप्रकृतिमाङिति पठित्वा भाष्यादौ तथा व्याख्या
,
1