________________
६८] सिद्धान्तकौमुदी।
[ भ्वादि. प्रणिगदति । जगाद । रद ५३ विलेखने । विलेखनं भेदनम् । रराद । णद ५४ अव्यक्ने शब्दे । २२८६ णो नः । (६-१-६५) धातोरादेर्णस्य नः स्यात् । नदति । 'णोपदेशास्त्वननाटिनाथनानन्दन कननृतः ।' नाटेर्दीर्घार्हस्य पयु. दासाद्घटादिोपदेश एव । तवर्गचतुर्थान्तनाधतेः नृनन्द्योश्च केचिण्णोपदेशतामाहुः । २२८७ उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४) उपसर्गस्थानिमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । उपसर्गस्थे लाक्षणिकम् , तदाह उपसर्गस्थादिति स्तिपा शपा च निर्देशा यङ्लुग्निवृत्त्यर्थाः । प्रणिगदतीति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति । णलि उपधावृद्धिमभिप्रेत्याह ररादेति । रेदतुरित्यादि । अरादीत् , अरदीत् । रणदेति । अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः । णो नः। ण इति षष्टयन्तम् । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति । मेघादिरिति शेषः । 'णो नः' इति नत्वस्यानैमित्तकतया लिरिनमित्तादेशादित्वाभावादेत्त्वाभ्यासलोपौ स्त एव - नेदतुरित्यादि । अथ 'नृत्ननन्द्नक्कनाट्नानाधृनृवर्ज णोपदेशाः' इति भाध्यं श्लोकार्धन सङ्ग्रह्णाति णोपदेशास्त्विति । 'नर्द शब्द' । 'नट अवस्कन्दने' चुरादिः । नाथू नायाच्नादौ। द्वितीयचतुर्थान्तौ । 'टु नदि समृद्धौ'। 'नक्क नाशने' । 'नृ नये' । 'नृती गात्रविक्षेपे' । एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्न नकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः । नाटीति ण्यन्तम्य प्रयोजनमाह नाटेरिति । घटादिरिति । 'नट नृत्तौ' इति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह तवर्गेति । तवर्गचतु
र्थान्तनाधधातोः नृनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् । ननु णकारमुपदिश्य तस्य किमर्थ नकारो विधीयते । नकार एवोपदिश्यतामित्याशय तत्प्रयोजनमाह उपसर्गात् । 'रषाभ्यां नो णः' इत्यधिकृतम् । नात् । णो नः । धातोरिति । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह अणति । णोपदेशान्पर्युदासमुखेनाह णोपदेशास्त्विति । 'नर्द शब्दे' । 'नट अवस्यन्दने' चुरादिः । यस्तु नट नृत्ताविति घटादिः, स नेह गृह्यते, नाटीति दीर्घनिर्देशात् । 'नाथू ना याच्यादौ' । 'टुनदि समृद्धौ' । 'नक्क नाशने' । 'नृ नये' । 'नृती गात्रविक्षेपे' । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते पञ्चभ्यो भिन्ना णोपदेशाः । उपसर्गाद् । 'समासेऽङगुलेः सङ्गः' इत्यतोऽनुवर्तनात्समास