________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६ प्रणदति । प्रणिनदति । अर्द ५५ गतौ याचने च । 'श्रत प्रादेः' (सू २२४८) २२८८ तस्मान्नुड् द्विहलः । (७-४-७१ ) द्विहलो धातोर्दी(मूतादकारात् परस्य नुट् स्यात् । पानद । पार्दीत् । न ५६ गर्द ५७ शब्दे । णोपदेशत्वाभावान णः । प्रनर्दति । गर्दति । जगर्द । तर्द ५८ हिंसायाम् । तदति । कर्द २६ कुत्सिते शब्दे । कुत्सिते कौक्षे। कर्दति । खर्द ६० दन्दशूके । दंशनहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः। खर्दति । चखई। अति ६१ अदि ६२ बन्धने । अन्तति । श्रानन्त । अन्दति । अानन्द । इदि ६३ परमैश्वर्ये । इन्दति। तदाह उपसर्गस्थादिति । 'समासेऽङ्गलेः सङ्गः' इत्यतः समास इत्यनुवृत्ते. रसमासे न स्यादित्यसमासग्रहणम् । तथा सति प्रणाम इत्यादौ समासे न स्यादित्यपिग्रहणम् , तदाह समासे असमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः। प्रणिनदतीति । 'नेर्गद-' इति णत्वम् । नचात्र 'उपसर्गादसमासे-' इति धातुनकारस्य णत्वं शङ्कयम् , अटकुप्वाभिन्न व्यवधानात् । अर्देति । 'उपधायां च' इत्यत्र इक इत्यनुवर्तनाद् अर्दतीत्यादौ न दीर्घः। लिटि णलि द्वित्वे हलादिशेषे 'अत अदिः' इत्यभ्यासाकारस्य दीर्घ श्रा अर्देति स्थिते तस्मान्नु । द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देन 'श्रत श्रादेः' इति कृत. दीर्घः पराभृश्यते, तदाह दी(भूतादिति । टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयवः, तदाह आनर्देति । आर्दीदिति । 'इट ईटि' इति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह कुत्सिते कौक्ष इति । कुक्षिभवे इत्यर्थः। खर्देति । दन्दशूको दंशनस्वभावः सर्पः । 'दन्दशूको बिलेशयः' इत्यमरः । ननु सर्पस्य क्रियात्वाभावात् कथं धात्वर्थत्वमित्यत आह दंशनेति । अति अदीति । इदित्त्वान्नुम् , तदाह अन्ततीति ।
आनन्तेति । 'अत आदेः' इति दीर्घः । 'तस्मान्नुविहलः' इति नुट् । एवम् अन्दति । अानन्दति । नुट् । आन्दीत् । इदीति । परमैश्वर्य परमेश्वरीभवनम् । एव स्यादित्यसमाग्रहणम् , कृते तु तस्मिन्नसमास एव स्यादित्यपेर्ग्रहणं कृतम् । प्रणिनदतीति । 'नेर्गद-' इति णत्वम् । धातुनकारस्य तु 'उपसर्गादसमास-' इति णत्वं न भवत्यडादिभिन्न व्यवधानात् । तस्मात् तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह दी/भूतादिति । खर्द दन्दशूके । दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न संगच्छत इत्यत आह दन्दशूकक्रियायामिति । दन्दशूककर्तृकायामित्यर्थः । आन
१ 'निर्गलिताम्बुगर्भ शरद्धनं नार्दति चातकोऽपि' इति पञ्चमे रघुवंशे ।