________________
१००] सिद्धान्तकौमुदी।
[ भ्वादिइन्दांचकार । बिदि ६४ अवयवे । पवर्गतृतीयादिः। बिन्दति । अवयवं करोतीत्यर्थः । भिदि इति पाठान्तरम् । गडि ६५ वदनैकदेशे। गण्डति । अन्तत्यादयः पञ्चैते न तिविषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । हिदि ६६ कुस्सायाम्। निन्दति प्रणिन्दति । टुनदि ६७ समृद्धी । २२८६
आदिदिडवः। (१-३-५) उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वाबलोपो न । नन्द्यात् । चदि ६८ श्राह्लादे । चन्दति । चचन्द । दि ६६ चेष्टायाम् । वन्दति । तत्रन्द । कदि ७० ऋदि ७१ ऋदि ७२ श्राह्वाने रोदने च । चकन्द । चक्रन्द । चक्रन्द । क्रिदि ७३ परिदेवने । चिनिन्द । शुन्ध ७४ शुद्धौ । इन्दतीति । इदित्त्वान्नुम् । इन्दांचकरेति । 'इजादेश्व-' इत्याम् । बिदीति । इदित्त्वान्नुमित्याह बिन्दतीति । नन्ववयवस्य प्रक्रियारूपत्वात् कथं धात्वर्थत्वमित्यत आह अवयवं करोतीत्यर्थ इति । अबिन्दीत् अबिन्दिष्टामित्यादि । पाठान्तर. मिति । पवर्गीयचतुर्थादिरित्यर्थः । गडीति । वदनैकदेश इति । तक्रियायामित्यर्थः । गण्डति । अगण्डीत् । अन्तत्यादय इति । अति अदि बन्धने, इदि परमैश्वये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवः तिप्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति । काश्यपादन्ये मुनयः तिङमपि एभ्य इच्छन्तीत्यर्थः । णिदीति । इदित्त्वान्नुम् , णोपदेशत्वाद् णस्य नत्वम् , तदाह निन्दतीति । प्रणिन्दतीति । 'उपसर्गादसमासेऽपि-' इति णत्वम् । टुनदीति। समृद्धिः प्रजापश्वादिसम्पत्तिः। आदिः। 'भूवादयो धातवः' इत्यस्माद् धातव इत्यनुवृत्तं षष्ठया विपरिणम्यते । 'उपदेशेऽजनुनासिकः-' इत्यस्माद् उपदेश इति, इदिति चानुवर्तते । श्रादिरिति इदिति च बहुत्वे एकवचनम् , तदाह उपदेश इति । टित्करणं 'टितोऽथुच्' इत्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीलिङि यासुटः कित्त्वेऽपि इदित्त्वाद् 'अनिदिताम्-' इति नलोपो नेत्यर्थः । नन्द्यादिति । अन्त्याद् अन्द्यादित्यस्याप्युपलक्षणम् । चदीति । इदित्त्वान्नुमित्याह चन्दतीति । त्रदौति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह जन्दतीति । क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवन इति । अनुदान्तेति । इदित्त्वान्नुम् , 'तस्मान्नुड् द्विहलः' इति नुट् । वदनैकदेश इति । तत्कियायामित्यर्थः । 'प्रादिजिटुडवः' । 'उपदेशेऽजनुनासिक-' इत्यतोऽनुवर्तनादाह उपदेश इति । उपदेशे किम् , विकारीयति । भिष्वप् , 'जीतः क्तः', सुप्तः । 'ट्वितोऽथुच्', नन्दथुः । 'इवितः वित्रः, कृत्रिमम् । क्लिदि परिदेवने । अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थ खरितेत्स्वयं