________________
प्रकरणम् ४३] बालमनोरमात्तत्वबोधिनीसहिता। [१०१ शुन्धति । शुशुन्ध । नलोपः शुध्यात् ।
अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् । शीकृ ५५ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके । लोक ७६ दर्शने । लोकते । लुलोके । श्लोक ७७ संघाते । संघातो ग्रन्थः । स चेह प्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा । प्रायऽकर्मको द्वितीये सकर्मकः । श्लोकते। द्रेक ७८ धेकृ ७६ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । 'एच इग्घ्रस्वादेशे' इति हस्वः। दिद्रके । दिधेके । रेकृ ८० शङ्कायाम् । रेकते । सेकृ ८१ नेकृ ८२ सकि ८३ श्रकि ८४ श्लकि ५ गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी। अषोपदेशस्वान षः। सिसेके । शकि ८६ शङ्कायाम् । शङ्कते । शशङ्के । अकि ८७ लक्षणे। भकते । प्रानङ्के। वकि ८८ कौटिल्ये। वङ्कते। मकि ८९ मण्डने । मङ्कते। त्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्ध. तीति । शुचिर्भवतीत्यर्थः। ननु शुधीत्येवमिदिदेवायं कुतो न पठित इत्यत आह नलोप इति । श्राशीलिडि 'अनिदिताम्-' इति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः। अथ कवर्गीयान्ता इत्यादि लोक इत्यन्तम् । स्पष्टम् । श्लोक इति । संघातशब्दं व्याचष्टे ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्कयाह स चेहति । प्रन्थनं ग्रन्थः-संघीभावः संघीकरणं वा । तत्र संघीभवनं संघनिष्ठम् , संघीकरणं तु संघीकर्तृनिष्ठम् । तत्र संघीभवनार्थकत्वे अकर्मकः, संघीकरणार्थत्वे सकर्मक इत्यर्थः । श्लोकत इति । संघीभवतीत्यर्थः, संघीकरोतीति वा । द्रेक धेकृ इति । शब्दनं शब्दः । एच इति । लिट एशि द्वित्वे हलादिशेषे देद्रेक ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् ‘एच इग्घ्रस्खादेशे' इति इकारो भवतीत्यर्थः । दिभ्रेक इति। अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु हृख इकारः । रेकृ इति । शङ्का संशयः आक्षेपो वा । 'शीकृ' सेचने' इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेक इति । श्राद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयः अदुपधा इदितः। त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पयुदासान षोपदेशत्वम् । द्वितीयतृतीययोस्तु दन्त्याच्परकसादित्वाभावान्न षोपदेशत्वम् । ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः । एच इग्घ्रस्खादेश इत्यभिप्रेत्याह सिसेक इत्यादि । सस्रङ्के इत्यादाविदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह शङ्कत इति । शशङ्क इति । अकीति । लक्षणं चिह्नीकरणम् । अङ्कत इति । न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ माङ्गलिकः । एतिरुवस्तवर्गी