________________
१०२] सिद्धान्तकौमुदी।
[भ्वादि. कक १० लौल्ये । लौल्यं गर्वश्चापल्यं च । ककते। चकके । कुक ११ वृक १२ अादाने । कोकते । चुकुके। वर्कते। ववृके। 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन ।' चक १३ तृप्तौ प्रतिघाते च । चकते। चेके । ककि १४ वकि १५ श्वकि ६६ कि ६७ ढौ १८ त्रौ ९ वष्क १०० वस्क १०१ मस्क १०२ टिक १०३ टीक १०४ तिकृ १०५ तीकृ १०६रधि १०७ लघि १०८ गत्यर्थाः । कङ्कते । बुढौके । तुत्रोके । 'सुब्धातुष्ठिवुष्वष्कतीनां सत्त्वप्रतिषेधो वक्रव्यः।' वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । टेकते । टीकते । एवं तेकते । तीकते । लघि जननिवृत्तावपि । अघि १०६ वधि इदित्त्वान्नुम् । आनङ्क इति । 'तस्मान्नुविहलः' इति नुट् । 'वकि कौटिल्ये' इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लघूपधगुणं मत्वा
आह कोकत इति । चुकुक इति । 'असंयोगात्-' इति कित्त्वाद् न लघूपधगुणः । अभ्यासे चुत्वम् । लघूपधगुणे रपरत्वं मत्वाह वर्कत इति । लिटि 'असं. योगात्-' इति कित्त्वान्न गुण इति मत्वाह ववृक इति । उरदत्वं 'हलादिश्शेषः'। ननु कित्त्वात् परत्वाद् गुणः स्यात् , कृते गुणे रपरत्वे संयोगात्परत्वेन कित्त्वस्याप्रवृत्त्या अनित्यत्वादित्यत श्राह ऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनेति । चकेति । तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः। द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्टौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । कङ्कत इत्यादाविदित्वान्नुम्। डढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकार ओकारस्य ह्रस्व उकारः। अथ ध्वष्कधातोः षोपदेशपरिगणनाद् 'धात्वादेः-' इति सत्वे प्राप्त प्राह सुब्धा. त्विति । षष्वक इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाभावाच । तृतीय इति । तथा च स्वष्कत इति रूपम् । केवलदन्त्यपरक सादित्वाभावेन षोपदेशत्वाभावः । टेकत इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लधिर्भोजननिवृत्तावपीति । निवृत्तिः विमुखीभवनम् । लङ्घते न भुङ्क्त यान्तस्तदनुरोधेन कतिचित् तवर्गीयान्ताः पठिताः । इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह अथेत्यादि । चुकुक इति । परमपि गुणं बाधित्वा नित्यत्वाद् 'असंयोगात्-' इति कित्त्वम् । सुब्धात्वित्यादि । सुब्धातोरुदाहरणानि । षड् दन्ता अस्य षोडन् , तमाचष्टे णिचि टिलोपः षोडयति । एवं षण्ढं करोत्याचष्टे वा षण्ढयति।
१ 'वक्क' इति क्वचित् पाठः।