SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०३ ११० मघि १११ गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे च इत्यन्ये । श्रङ्घते । श्रनङ्के । वङ्घते । मङ्घते । मघि कैतवे च । राघृ ११२ लाघृ ११३ द्वाघृ ११४ सामर्थ्यं । राघते । लाघते । धाघृ इत्यपि केचित् । द्वाघृ श्रायामे च । श्रायामो दैव्यम् । द्राघते । लाट ११५ कत्थने । श्लाघते । 1 I अथ परस्मैपदिनः पञ्चाशत् । फक्क ११६ नीचैर्गतौ । नीचैर्गतिर्मन्द्गमनमसह्यवहारश्च । फक्कति । पफक्क । तक ११७ हसने | तकति । तकि ११८ कृच्छ्रजीवने । तङ्कति । बुक्क ११६ भषणे । भषणं श्वरवः । बुक्कति । कख १२० हसने । प्रनिकखति । श्रखु १२१ राखु १२२ लाखु १२३ द्वाखु १२४ धाखु १२५ शोषणालमर्थयोः । श्रोखति । श्रखांचकार । शाख १२६ श्लाखु १२७ व्याप्तौ । शाखति । उख १२८ उखि १२६ वख १३० वखि १३० मख १३२ मखि १३३ णख १३४ खि १३५ रख १३६ रखि १३७ लख १३८ लखि १३६ इख १४० इखि १४३ ईखि १४२ वल्ग १४३ रगि १४४ लगि १४५ अगि १४६ वगि १४७ मगि १४८ तगि १४६ स्वगि १५० श्रगि १५१ लगि १५२ इगि १५३ रिगि १५४ लिगि १२५ गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तात्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित् इत्यर्थः पः । अधीति । त्रयोऽपि चतुर्थान्ता इदितः । श्रनङ्घ इति । ' तस्मान्नुद्विहल:' इति नुट् । वङ्गत इति । इदित्त्वान्नुम् । लिटि तु ववम इति रूपम् । वादित्वात्संयुक्त हल्म ध्यस्थत्वात् संयोगात्परत्वेन लिटः कित्त्वाभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इति । त्रयोऽपि ऋदितः । सामर्थ्य कार्यक्षमीभवनम् । भ्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति । श्रयामो दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनं स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । . फक्क नीचैरित्यादि स्पष्टम् । प्रनिकखतीति । 'शेषे विभाषा -' इत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । श्रख इति । अलमर्थो भूषणकिया, पर्याप्तिः, वारणं वा । श्रखति । श्रखांचकार । शाख लाख इति । श्लाष्ट इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । ईखि इत्यन्ता इति षण्ढीयतीत्यत्र षण्ढशब्दात् क्यचि ईत्वं बोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहि 'धात्वादेः-' इति सूत्रे उपदेश इति वर्तते । न च सुब्धातूनामुपदेशोऽस्ति । ष्टिवुष्वष्कती तु यकारादी । 'लोपो व्योः-' इति यलोपः । प्रनिकखतीति । 'शेषे विभाषा-' इत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । सवर्णेऽचीति ।
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy