________________
१०४ ]
सिद्धान्तकौमुदी ।
[ स्वादि
पठन्ति । श्रखति । २२६० अभ्यासस्यासवर्णे । ( ६-४-७८ ) इवर्णोवर्णान्तस्य अभ्यासस्येयङुवङौ स्तोsसवर्णोऽचि । उवोख । संनिपातपरिभाषया 'इजादे: -' ( सू २२३७ ) इत्याम् न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्धस्वः प्राप्तो न भवति । सकृत्प्रवृत्तस्वात् । श्राङ्गस्वाद्धि शेषः । त्रयोदशेति । वल्गादय इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् ।
खतीति । शपि लघूपधगुणः । लिटि गुलः पित्वेन कित्त्वाभावात् प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचि' इति निषिद्धतया गुरुमत्त्वाभावादाम भाव सति पूर्वं द्वित्वे कृते हलादिशेष पश्चाद् 'वार्णादा बलीयः' इति परिभाषया अन्तरङ्गमपि सवणदीर्घ बाधित्वा लघूपधगुणे कृते उ ओख् इति स्थिते, उवर्णस्य यणि प्राप्ते अभ्या सस्य । 'अचि श्नुधातु -' इत्यतः श्रचीति, य्वोरियङुवाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । श्रभ्यासविशेषणमिदं तदन्तविधिः, तदाह इवर्णोवर्णान्तस्येति । ङित्त्वादन्तादेशौ । उवोखेति । 'अत्रि श्नुधातु-' इत्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादियत आह संनिपातेति । गलि परे विहितगुणसंपन्नमिजादिगुरुमत्त्वमाश्रित्य श्रमं गुणो न प्रवर्तयति, आमि सति धातोणल्परकत्वव्याघातादिति भावः । ऊखतुरिति । पित्वेन कित्त्वाद् लघूपधगुणाभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्यासस्यासदर्श इति इयभावे सर्वणदीर्घे रूपमिति भावः । ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घ संपन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससंबन्धित्वाद् 'हस्वः' इत्यभ्यासस्याचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणादुद्धस्वः प्राप्त
असवर्णे किम्, ऊखतुः । अचि किम्, इयाज, उवाय । उवाखेति । 'द्विर्वचनेऽचि ' इति निषेधात्पूर्वं द्वित्वं पश्चादुकारस्य लघूपधगुणे कृते अभ्यासस्योवङ् । एवमियेषेत्यत्रेयङ् । असवर्णग्रहणसामर्थ्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति बोध्यम् । संनिपातपरिभाषयेति । श्रमि सति लिट्परत्वं धातोर्न सिध्येदिति भावः ! अन्य तु -' इजादेः-' इति सूत्रे गुरुमानिति नित्ययोगे मतुप् । ततश्च नित्यं यो गुरुमान् 'एध वृधौ' इत्यादिस्तत्रैव स्यादिति नात्र श्रमः प्रसक्तिरित्याहुः । ऊखतुरित्यत्र कित्त्वाद् गुणाभावे 'अभ्यासस्यासवर्णे' उवङ न भवति । ननु इयेष उवोखेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्व इतीष्टरूपासिद्धेः किं तत्रासवर्णग्रहणेनेति चेत् । अत्राहुः - 'वादानं बलीयः' इति परिभाषाज्ञापनार्थमेवा