________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०५
पर्जन्यवलक्षण प्रवृत्या हस्ते कृते ततो दीर्घः । 'वार्णादानं बलीयः' इति न्यायात् परत्वाच्च । उङ्खति । वत्राख । ववखतुः । वङ्खति । मेखतुः । ( मङ्खति । मम । इति । अथ परिहरति न भवतीति । कुत इत्यत श्राह सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति आङ्गत्वादिति । उ उखतुरिति स्थिते पर्जन्यवल्लक्षण प्रवृत्त्या अभ्यासहस्वे सवर्णदीर्घे ऊखतुरिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासहस्वो न भवति । ‘लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः' इति न्यायादित्यर्थः । ( नेनु वमात्रापेक्षत्वेन अन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति हस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि हस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम् उक्तरीत्या अन्तरङ्गं सवर्णदीर्घ प्रति हस्वस्य परत्वकथनानौचित्यादिति चेद् न, परत्वादित्यपरकालप्राप्तिकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाभावेन युगपदेव ) हलादिशेषे हस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्वं पूर्वमन्तरङ्गं परं परं बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् । उद्धतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्ण/लि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम्, ववल । मेखतुरिति । एत्त्वाभ्यासलोपौ । मङ्गतीति । मखिसवर्णग्रहणं कृतम् । तेन भवतीत्यत्रान्तरङ्गमपि यं बाधित्वा गुणो भवति । तथा किरोतेर्घञ कार इत्यत्र यणं बाधित्वा वृद्धिर्भवति । न चैवं सिवेरौणादिके नप्रत्यये स्योन इत्यत्र 'वोः शू ड्-' इत्यूठि कृते लघूपधगुणं बाधित्वा यग् न स्यादिति वाच्यम्, समानाश्रय एव वार्णादाङ्गस्य बलीयस्त्वात् । इह तु निमित्तभेदेन व्याश्रयत्वमिति । अभ्यासग्रहणेनेति । पूर्वस्यान्तवत्त्वेनेत्यर्थः । पर्जन्यवल्लक्षणेति । उपयोगानुपयोगाविचारेण प्रवर्तमानं शास्त्रं हस्वस्थानेऽपि हखं प्रवर्तयतीत्यर्थः । तथा चैकस्मिल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः । श्रङ्गं बलीय इति । नन्वत्र हवसवर्णदीर्घयोर्निमित्तभेदात्समानाश्रयत्वाभावे कथमान्ङ्गस्य बलीयस्त्वमिति चेत् । सत्यम्, इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयत्वाभ्युपगमात् । अत एवोङ्शब्दे इत्यस्माल्लिटि ऊवे ऊवाते इत्यादीष्टं सिध्यति । उवङः प्राक् सवर्णदीर्घप्रवृत्तौ तन्न सिध्येदिति दिक् । परत्वाच्चेति । श्रापाततोऽयं हेतुः, ह्रस्वस्याङ्गत्वेन बहिरङ्गत्वादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तत्वात् । उङ्खतीति । इदिवान्नुम् । लिटि उङ्खांचकार । आशिषि उख्यात् । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न। एखति । इङ्खति, इङ्खांचकार । ईङ्खति, ईङ्खाञ्चकार । इङ्गति, इङ्गांचकार । १ कोष्ठान्तर्गतः पाठः 'क' पुस्तके नास्ति ।
|
,