________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६५ परस्य वलादेरार्धधातुकस्येड्वा स्यात् । २२८० झषस्तथो?ऽधः। (८-२४०) झषः परयोस्तथोर्धः स्यान तु दधातेः । जश्वम् । सिषेद्ध-सिषेधिय । सेद्धा, सेधिता। सेत्स्यति, सेधिष्यति । असत्सीत् । २२८१ भलो झलि । स्यड्वलादेः' इत्यनुवर्तते । खरति सूति सूयति धूञ् ऊदित् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । फलितमाह स्वरत्यादेरिति । खरतीति स्वृधातोः शपा निर्देशः। सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवं च 'धू प्रेरणे' इति तौदादिकस्य न ग्रहणम् । 'धून कम्पने' स्वादिः क्रयादिश्च । अकारानुबन्धनिर्देशाद् 'धू विधूनने' इत्यस्य न ग्रहणम् । 'इट्सनि वा' इत्यतो वेत्यनुवर्तमाने वाग्रहणं लिङ्सिचोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडभावपक्षे द्वित्वादौ सिसेध् थ इति स्थिते । झषस्तथोः । झष इति पञ्चमी । तश्च थ् वेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । धः इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । अध इति षष्ठयन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह झष: परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थिते 'झलां जश् झशि' इति प्रथमधकारस्य दकारे सिषेद्धति रूपमित्यर्थः । सिषिधिव-सिषिध्व, सिषिधिम-सिषिध्म। क्रादिनियमस्तु नेड्वशीति प्रक्रमानप्रापितस्यैवाभावस्य निवर्तकः, नतु विभाषादिप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह सिषधिथेति । सेद्धति । लुट् , तास् , इडभावः, डा, टिलोपः, गुणः, धत्वम् जश्त्वम् । सेद्धारौ सेद्धार इत्यादि । सेधितेति । इटपक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लुटि स्यः, इविकल्पः। असत्सीदिति । लुगस्तिप् , इकारलोपः,च्लिः, सिच, इडभावः, 'अस्तिसिचः-' इति स्वरतिसूति । 'स्थ शब्दोपतापयोः' भ्वादिः । ननु 'खरतिसूधूदितो वा' इति सूत्र्यता किमनेन सूतिसूयत्योः पृथग्ग्रहणेन । मैवम् , तथाहि सति निरनुबन्धकपरिभाषया 'घू प्रेरणे' इति तौदादिकस्यैव प्रहणं स्यान त्वादादिकदेवादिकयोरेतयोः।न चैवं षूङ् इति पठ्यतामिति वाच्यम् , 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया अलुग्विकरणस्य सूयतेरेव प्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणमेव ज्ञापकमित्याहुः। 'धूञ् कम्पने' खादिः क्रयादिश्च । सानुबन्धनिर्देशो 'धू विधूनने' इत्यस्य निवृत्त्यर्थः । 'इट् सनि वा' इत्यतो वेति वर्तमाने पुनर्वाग्रहणं लिसिचोर्विकल्पनिवृत्त्यर्थम् । अन्यथा लिसिज्विशिष्टं वापदमत्रापि लिङ्सिचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु वलाद्यार्धधातुकमात्रस्य विकल्पः सिद्ध इति भावः । झषस्तथोः । अध इति किम् , धत्तः । असैत्सीदिति । 'अस्तिसिच -' इति