________________
६४] सिद्धान्तकौमुदी। [भ्वादिदिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः। २२७८ सेधतेर्गतौ। (-३-१९३) गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । षिधू ४८ शास्त्र माङ्गल्ये च । शास्त्रं शासनम् । २२७६ स्वरतिसूतिसूयतिधूदितो वा । (७-२-४४) स्वरत्यादेरूदितश्च तेषु दशखित्यर्थः । निषिषधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्य 'उपसर्गात्सुनोति-' इत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्कय नियमार्थमित्याह एषामेवेति । अभ्यासस्थसकारस्य चेत् षत्वं तर्हि स्थादिदशानामेवत्यर्थः । एवं च 'धू प्रेरणे' अभिसुसूषति । अत्राभ्यासस्य न षत्वम् । अभ्यासात्पर स्य तु सस्य 'स्तौतिएयोरेव-' इति नियमान्न षत्वम् । सेधतेः । न षत्वमिति । 'न रपर-' इत्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसघतीति । गच्छतीत्यर्थः । इह 'उपसर्गात्सुनोति-' इति षत्वं न भवति । अनन्तरस्यति न्यायेन 'उपसर्गात्सुनोति-.' इत्यस्यैवायं निषेधः, न त्वादेशप्रत्यययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्यययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह शास्त्रं शासनमिति । माङ्गल्यं तु शुभकर्म । 'षिध गत्याम्' इतिवदस्यापि रूपाणि । तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते । स्वरति । 'आर्धधातुकद्वितीयं तु नियमार्यमित्याशयेनाह व्यवायेऽपीति, षत्वमेषामेव चेति । स्थादीनां दशानामेवाभ्यासस्य षत्वमित्यर्थः । तत्फलं तु 'पू प्रेरणे' अभिसुसूषति । अत्रोक्वनियमादभ्याससकारस्य न षत्वम् , द्वितीयस्य तु 'स्तौतिण्योः' इति नियमान भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं पूर्वस्य तूक्लनियमानेति बोध्यम् । स्यादेतत्-निषिषेधेत्यादौ अभ्यासस्य 'उपसर्गात्सुनोति-' इत्यनेन सिद्धम् , अभ्यासात्परस्य तु 'श्रादेशप्रत्यययोः' इत्यनेनेति किमाद्यवाक्येन । अत्राहुः-फलत्रयार्थमायं वाक्यम् , अषोपदेशार्थम् । तथाहि-सेनया अभियातुमिच्छति अभिषिषणयिषति । अवर्णान्ताभ्यासार्थ च-'अर्धासनं गोत्रभिदोऽधितष्टौ' । षणि प्रतिप्रसवार्थ च-अभिषिषिक्षति । 'षिच क्षरणे' । 'स्तौतिण्योरेव-' इति नियमात् षभूते सनि निवर्तितमपि षत्वमुपसर्गमाश्रित्यात्र भवतीति । सेधतेर्गतौ । श्तिपा निर्देशाद्गत्यर्थादस्माद्यब्लुकि न निषेधः, तेनोपसर्गमाश्रित्य षत्वं भवत्येव । विसेधतीति । न च सेधेति शपा निर्देशाद्यब्लुकि 'उपसर्गात्सुनोति-' इति षत्वं न भवेदिति शङ्कयम् , देवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चारितार्थ्यात् । अन्यथा सेधतेरिति रितपा निर्देशस्य वैयर्थ्यापत्तेरिति दिक् । बिधू शास्त्रे । माङ्गल्यं मङ्गलकिया। स्वार्थे ध्यञ् ।