________________
प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [६३ २२७५परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वाम्। (८-३-७०) परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति । २२७६ प्राक्सितादड्व्यवायेऽपि । (८--३-६३) 'सेवसित-'(सू २२७५) इत्यत्र सितशब्दात् प्राक् ये सुनोत्यादयस्तेषामड्व्यवायेऽपिषत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् । २२७७ स्थादिष्वभ्यासेन चाभ्यासस्य । (८-३-६४) प्राक्सितात्स्थासामीप्यम् । अवष्टब्धा गौः । निरुद्धा सती समीपे प्रास्त इत्यर्थः। वेश्च । अवादित्यनुकर्षणार्थश्वकारः, तदाह व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । 'अट्कुप्वाङ्-' इति णत्वम् । परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः । 'षेत्र सेवायाम्' इति धातोर्ग्रहणम् । परिषेवते। निषेवते । विषेवते । सितत्यनेन 'षिञ् बन्धने' इति क्लान्तस्य ग्रहणम् । अस्यैव धातोः एरजन्तो वा पचायजन्तो वा सयशब्दः । विषितः विषयः । 'षिवु तन्तुसन्ताने' । परिषीव्यति । 'षह मर्षणे' परिषहते । सुट आगमः । परिष्करोति । स्तुस्वोः 'उपसर्गात् सुनोति-' इत्येव सिद्ध 'सिवादीनां वा-' इति विकल्पार्थ पुनर्वचनम् । प्राक्सितात् । सुनोत्यादय इति । 'उपसर्गात्सुनोति-' इत्यादिसूत्रोपात्ता इति शेषः। तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेण व्यवहितत्वादिणः परत्वाभावादप्राप्ती वचनम् । अभ्यषुणोदित्यप्युदाहार्यम् । स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते, तदाह प्राक्सितादिति । 'उपसर्गात्सुनोति-' इति सूत्रे स्थाधातुमारभ्य 'परिनिविभ्यः सेवसित-' इत्यत्र सितशब्दात्प्राग् ये धातव उपात्ताः इत्याहुः । वेश्च । विष्वणति । सशब्दं भुत इत्यर्थः । 'अट्कुप्वाङ्-' इति णत्वम् । एवमवष्वणति । व्यष्वगत् । विषष्वाण । 'स्थादिष्वभ्यासेन-' इति षत्वम् । भोजन किम्, विखनति वीणा। परिनिविभ्यः । सेवेत्यत्र प्रकार उच्चारणार्थः । न च यङ्लुमिवृत्तये शपा निर्देश एवास्त्विति शङ्कपम् , वकारान्तानामूठभाविना यङ्लुङ् नास्तीति वक्ष्यमाणत्वात् । 'षेत्र सेवायाम्' परिषेवते । 'षिञ् बन्धने, वान्ता सितशब्दः, एरजन्तः पचायन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टप्रहणं किम् , विसिनोति । 'षिवु तन्तुसन्ताने', परिषीव्यति । 'षह मर्षणे' परिषहते । सुडागमः, परिष्करोति, विष्करोति । स्तुखोः 'उपसर्गात्सुनोति-' इत्येव सिद्धे परिनिविभ्यः परयोरेतयोः 'सिवादीनां वाड्व्यवायेऽपि' इति विकल्पार्थ पुनर्वचनम् । प्राक्सितात् । 'उपसर्गात्सुनोति-' इत्यादिना विहितं षत्वम् अड्व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम् । तेषामिति । पञ्चदशानामित्यर्थः । अभ्यषुणोदित्यादीन्युदाहर्तव्यानि । स्थादिषु । इह द्वे वाक्ये, पाद्यं षत्वविध्यर्थ