________________
६२] सिद्धान्तकौमुदी।
[ भ्वादि. स्यात् । योगविभाग उत्तरार्थः । किं च अप्रतेः इति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति । २२७३ अवाच्चालम्बनाविर्दूययोः । (८-३-६८) अवास्तन्भेरेतयोरर्थयोः षत्वं स्यात् । २२७४ वेश्च स्वनो भोजने । (८-३-६६) व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने । स हि प्रतिपदोक्तः । 'टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् । 'उदः स्थास्ाम्भोः-' इति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् , मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननु ‘सदिस्तन्भ्योरपतेः' इत्येकमेव सूत्रं कुतो न कृतमित्यत आह योगविभाग उत्तरार्थ इति । 'अवाच्चालम्बनाविर्ययोः' इत्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरखरितत्वादालम्बनाविदूर्ययोवृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यखारस्यादाह किं चेति । नानुवर्तत इति । 'स्तन्भेः' इत्यत्र अप्रतेरित्यस्य अनुवृत्तिनेष्टा । एकसूत्रत्वे तु अप्रतरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः । अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह बाहुप्रतिष्टम्भेति । अवाच्च । आलम्बनं च श्राविदूर्य चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतयोरिति । पालम्बनाविर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरित्यन्वयः । अपूर्वविधिरयम् , इणः परत्वाभावादप्राप्तः। आलम्बने यथा-यष्टिमवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविर्य रोधनार्थस्य, न तु 'टभि प्रतिबन्धे' इत्यस्येति भावः । एवं 'जस्तन्भु-' इत्यविधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम् । एतच्च ‘लक्षणप्रतिपदोन-' परिभाषया लभ्यते । सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः । इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः । तेन विस्तम्भते इत्यादौ षत्वं न । 'उदःस्थासम्भोः-' इति सूत्रे मकारोपधग्रहणेनोभयोरपि ग्रहणादुत्तम्भते इति द्वयोरपि रूपं तुल्यम् , मकारस्योभयत्रापि लाक्षणिकत्वात् । उत्तरार्थ इति । उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः । ननु 'सदिस्तन्भ्योः ' इति सूत्रितेऽपि एकदेशे खरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह कि वेति । जानुवर्तत इति । तथा च 'स्तन्भेः' इत्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः । अवाश्चा। चकारश्चिन्त्यप्रयोजन इत्याहुः । पालम्बनमाश्रयणम्। यथा यष्टिमवष्टभ्य आस्ते। तामाश्रित्य तिष्ठतीत्यर्थः । श्राविदूर्य सामीप्यम्। तच प्रयोगोपाधिः । अवष्टब्धा गौः । निरुद्धा सती समीपे प्रास्त इत्यर्थः । एतयोः किम् , अवस्तब्धो वृषलः शीतेन । केचिदिह अविदूरशब्दात्स्वार्थे व्यञ् । प्राविदूर्यमनतिदूरम् । ईषदूरमित्यर्थः । तथा च अविदूरशब्दात् 'न नअपूर्वात्तत्पुरुषात्' इति निषेधे प्राप्ते अतएव निपातनाद्भावे प्रत्यय इति मनोरमाप्रन्थोक्ति तीवोपयुज्यत