________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [११ इति षत्वनिषेधे प्राप्ते। २२७० उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वजाम । (८-३-६५) उपसर्गस्थानिमित्तादेषां सस्य षः स्यात् । २२७१ सदिरप्रतेः। (८-३-६६) प्रतिभिन्नादुप. सर्गात्सदेः सस्य षः स्यात् । २२७२ स्तन्मेः। (८-३-६७) सौत्रस्य सस्य षः निषेधतीत्यादौ 'उपसर्गात्सुनोति-' इति षत्वं वक्ष्यति । तत्किमर्थम् 'श्रादेशप्रत्यययोः' इत्येव सिद्धरित्याशङ्कयाह सात्पदाद्योरिति । उपसर्गात्सुनोति । उपसर्गस्थादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भावः । निमित्तादिति । इणरूपादित्यर्थः । 'इर कोः' इत्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तत इति भावः । षः स्यादिति । 'अपदान्त्स्य मूर्धन्यः' इत्यधिकारादिति भावः । अत्र सुनोतीस्यादिः श्तिपा निर्देशो यङ्लुङ् नेवृत्त्यर्थ इति प्राञ्चः । स्वष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातः । सेधतीति शपा निर्देशात् सिध्यतेन ग्रहणम् । अभिषुणोतीत्यायुदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः। प्रसङ्गादाह सदिरप्रतेः । उपसर्गादिति । उपसर्गस्थादिणः परस्येत्यर्थः । सदिरिति षष्ठ्यर्थे प्रथमेत्यभिप्रत्याह सदः सस्येति । निषीदतीत्युदाहरणम् । स्तन्भः। नकारोपधनिर्देशस्य प्रयोजनमाह सौत्रस्येति । 'स्तन्भुस्तुन्भु-' इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । 'श्रादेशप्रत्यययोः' इति षत्वम् । उपसर्गात् । 'सुनोति सुवति-' इत्यादि श्तिपा निर्देशो यङ्लुनिवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादी षत्वं नेति प्राश्चः । स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्विति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामधातुः । सेनयाऽभियाति अभिषेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं न तु सिध्यतेः, परिसिध्यति। गृहा दारा इत्यत्रेव तात्स्थ्यात्ताच्छब्द्यमित्याह उपसर्गस्थादिति । निमित्तादिति। इणरूपात् । कवर्गस्तु नेह सम्बध्यते, असम्भवात् । न च निःषुणोति निषेधति निःषिञ्चतीत्यादौ व्यवधानेन इणः परत्वाभावात् सस्य षत्वं न स्यादिति शङ्कथम् , षत्वविधौ ‘नुमविसर्जनीयशर्व्यवायऽपि' इत्यधिकारात् । इणन्तादुपसर्गादिति व्याख्याने तु स्यादेवात्राव्याप्तिः । 'दुरः षत्वणत्वयोः-' इत्युपसर्गत्वप्रतिषेधाद् दुःसुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक् । मूर्धन्यादेशे फलितमाह सस्य षः स्यादिति । स्थादित्रु 'प्राक् सितात्-' इत्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे सदिरप्रतेः। अप्रतेः किम् , प्रतिसीदति । षष्ठयर्थे प्रथमेत्याह सदेरिति । स्तन्भेः सौत्रस्येति । 'स्वन्भुस्तुन्भु-' इति सूत्रे निर्दिष्टस्य