________________
१०] सिद्धान्तकौमुदी।
[ भ्वादिधातोश्च्लेर वा स्यात्परस्मैपदे परे । अच्युतत् , अच्योतीतः । श्च्युतिर् ४१ हरणे । श्च्योतति। चुश्च्योत। अश्च्युतत् , अश्च्योतीत् । यकाररहितोऽप्ययम् । श्वोतति । मन्य ४२ विलोडने । विलोडनं प्रतिघातः । मन्थति। ममन्थ । यासुटः 'किदाशिषि' (सू २२१६) इति कित्त्वाद् 'अनिदिताम्-' (सू ४१५) इति नलोपः । मध्यात् । कुथि ४३ पुथि ४४ लुथि ४५ मथि ४६ हिंसासक्नेशनयोः । इदित्त्वाबलोपो न । कुन्थ्यात् । पुन्थ्यात् । लुन्थ्यात् । मन्थ्यात् । षिध ४७ गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । 'सात्पदाद्योः' (सू २१२३) इरितोवा। धातोरेकाचः-' इत्यतो धातोरिति 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः-' इत्यतः अदिति 'पुषादिद्युतादि-' इत्यतः परस्मैपदेष्विति चानुवर्तते, तदाह इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । अङभावे त्वाह अच्योतीदिति । 'इट ईटि' इति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति । च्युतिवद्रूपाणि । चुश्च्योतति । 'शपूर्वा:-' इति चकारः शिष्यते । यकाररहितोऽपीति । 'मधुश्चुतं घृतमिव सुपूतम्' इत्यादौ तथा दर्शनादिति भावः । मन्थेति । विलोडनमास्फालनम् । मन्थतीत्यादि । सुगमम् । आशीलिङि विशेषमाह यासुट इति । कुथीति । चत्वारोऽपि द्विती. यान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिडि यासुटः कित्त्वेऽपि इदित्त्वेन 'अनिदिताम्-' इति पर्युदासाद् नलोपो नेत्याह इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः । षिघ गत्यामिति । अच्परकषकारादित्वात् षोपदेशोऽम् । ततश्च 'धात्वादेः-' इति सः । तदाह सेघतीति । सिषेधेति । आदेशसकारत्वात् षत्वम् । अनिट्सु . श्यन्विकरणस्यैव सिधैर्ग्रहणात् सेटकोऽयम् । असेधीदिति। 'इट ईटि' इति सिज्लोपः । 'नेटि' इति निषेधाद् न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि। अथ जनुनासिक:-' इति, रेफस्य तु 'हलन्त्यम्' इति प्रत्येकमित्संज्ञायाम् 'इदित-' इति नुम् स्यादिति भावः । एतस्य वैयर्थ्य 'चक्षिा व्यक्तायां वाचि' इत्यत्र स्फुटीभवि. प्यति । चुश्च्योतेति । 'शरपूर्वाः खयः' । यकाररहितोऽप्ययमिति । तथा च प्रयुज्यते 'मधुश्च्युतं घृतमिव सुपूतम्' इति । मन्थ । श्रयं ज्यादावपि । 'विध गत्याम्' । अयमुदिदिति केचित् । तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिप्रन्थविरुद्धम् । उदित्त्वे तु 'उदितो वा' इति क्त्वायामिड्. विकल्पानिष्ठायामिण् न स्यात्, 'यस्य विभाषा' इति निषेधात् । सिषेधेति ।