________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता।
[८६
स्थाने वृद्धिः स्थास्सिधि परस्मैपदेषु । इति प्राप्ते । २२६८ नेटि। (७-२-४) इडादी सिचि प्रागुनं न स्यात् । मा भवानतीत् अतिष्टाम् अतिषुः । चिती ३१ संज्ञाने । चेतति । विचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । ब्युतिर ४० प्रासेचने । असेचनमार्दीकरणम् । प्राङीषदर्थेऽभिव्याप्तौ च । 'इर इस्मज्ञा वाच्या' । च्योतति । चुन्योत । २२६६ इरितो वा । (३-१-५७) इरितो शङ्कितुमाह वदव्रज । वद व्रज हलन्तः, एषां समाहारद्वन्द्वात् षष्ठयकवचनम अङ्गस्य' इत्यधिकृतम् । 'सिचि वृद्धिः परस्मैपदः' इत्यनुवतते । तदाह वदेरित्यादिना । हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदवाजोदित्यत्र 'अतो हलादेलेघोः' इति वृद्धिविकल्पबाधनार्थम् । नेटि। प्रागुक्त नेति । 'वदवजहलन्तस्याचः' इत्युक्तं नेत्यर्थः । तत्र वदव्रजयोविशिष्य विधानाद्, हलन्तलक्षणाया एव वृद्धनिषेधोऽयम् । हलन्त. लक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था । नन्वाती/दत्यादौ अकारस्य वृद्धौ सत्यामसत्यां च पाटा एकादेशे सति रूपे विशेषाभावात किं तनिषेधेनेत्याशङ्कथाह मा भवानतीदिति । मायोगे श्राडभावे सति वृद्धिनिषेधः सफल इति भावः । चितीति । ईदित्त्वं 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम । चेततीति । शपि लघूपधगुणः । चिचेतेति । तिबादेशणलः पित्त्वेन 'असंयोगात्-' इति कित्त्वस्याप्रवृत्तेः न गुणनिषेधः । चिचिततुरित्यादौ तु कित्त्वान गुणः । अचेती. दिति । 'इट ईटि' इति सलोपः । अचेतिष्टामिति । अपृक्तत्वाभावादीडभावान सिज्लोपः । 'नेटि' इति निषेधान्न हलन्तलक्षणा वृषिः। च्युतिरिति । अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वान्नुमि प्राप्ते आह इर इत्संक्षेति। तथा च इर् इति समुदायस्य इत्संज्ञकत्वादिदित्त्वाभावान नुमिति आवः । च्योततीति । लघूपधगुणः । चुच्योतेति । णलः पित्त्वेन कित्त्वाभावान गुणनिषेध इति भावः। चुच्युततरित्यादौ तु कित्वान गुणः । लुङि च्लेः सिचि प्राप्ते । मते तु सस्येति भेदो बोध्य इति । वदव्रज । अवादीत् । अवाजीत् । अतो हलादेःइति विकल्पं बाधित्वा अनेन नित्यं वृद्धिः । हलन्तस्योदाहरणमपाक्षीत् , अधाक्षीत् । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । 'हलोऽच्' इत्युक्ते त्वजन्तास्य हलः स्थाने वृद्धिरिति कदाचिदाशयत । अच इति तु इक्परिभाषाया अनुपस्थानार्थम् । अन्यथा अभेत्सोदित्यत्र स्थान त्वपाक्षीदित्यादौ । नेटि । प्रागुतं नेति । हलन्तत्वादेव सिद्ध वदव्रजोविशिष्य विधानान निषेधः, किंतु हलन्तलक्षणाया एवं वृद्धनिषेधः, तस्या. अनिडादौ सिचि चरितार्थत्वात् । अमुमेवार्थ मनसि निधाय कचित् पुस्तकेषु हलन्तलक्षणा वृद्धेर्नेत्येव पठ्यते । इर इत्संक्षेति । इकारस्य 'उपदेशेऽ.