________________
६५६ ]
सिद्धान्तकौमुदी। [लकारार्थसमुचीयमानविशेषावामनुप्रयोगान सामान्घनाभेदाम्बवः । परे सक्दम्पिवति। धानाः खादति । अ मुक्के । दाधिकमासादयते । एवेग-.
'पुरीमवस्कन्द लुनीहि नन्दनं मुषाव रखानि हरामरानाः । विगृह चक्रे नमुचिद्विषा बली य इत्यमखास्यमहर्दिवं दिवः ॥'
इति व्याल्यातम् । अवस्कन्दनसवनादिरूपा भूतानयतनपरोषा एक. कर्तृका प्रस्वास्थ्यक्रियेत्यर्थात् । इह पुनः पुनस्कन्देवादिरर्थ इति ग्याल्यानं भ्रममूलकमेव, द्वितीयसूत्रे क्रियासममिहारे इत्वयाननुवृत्तेः, खोरन्तल द्विस्वा. पत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषेकवचनमित्यपि केषांचिद् प्रम एव । पिब खादेत्यभ्यवहरतीत्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमान धातुवाच्याभ्यवहरणात्मकक्रियासामान्येन अभेदान्वय इत्यर्थः । पक्षे सक्तनिति । समुच्चये लोडभावपचे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः ।।
एतेनेति । 'समुच्चयेऽन्यतरस्याम्' इति 'समुचये सामान्यवचनस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्देत्यादि माधकाम्यस्थं लोकवाक्यं व्याख्यातमित्यर्थः । बली रावणो नमुचिद्विषा इन्द्रेण सह विगृह्य विरोधं प्राप्य पुर्याः अमरावत्या अवस्कन्दनं पीडनम् , नन्दनवनस्य लवनम् , रत्नान मोषणम् , अमरागनानां हरयाम् इत्येवंप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यं चंके कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायः अवस्कन्दनादिक्रियाविशेषाणाम् अस्वास्थ्यक्रियासामान्ये अभेदं ग्राहयति । फलितमाह अवस्कन्दनलवनादीति । श्रादिना मोषणं हरणं च गृह्यते । भ्रममूलकत्वमुपपादयति द्वितीयसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तर नुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह लोडन्तस्येति । 'समुच्चयेऽन्यतरस्याम्' इति सूत्रे कियासमभिहारे इत्यनुवृत्तौ अवस्कन्देत्यादिलोड. न्तानां 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तेरित्यर्थः । भ्रम एवेति । लवनादीति । आदिशब्देन मोषणहरणे प्राये। अनुत्यभ्युपगमे बाधकमाह लोडन्तस्येति । भ्रम एवेति । पुरुषांशे वचनाशे च । लोडशे तु प्रमेवेति भावः । एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं पुरुषवचनसंज्ञे तु विधानसामर्थ्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिदिः । इति श्रीपरमहंसवरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारविन्दसेवक
ज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्याया
तत्त्वबोधिन्याख्यायां तिङन्तं संपूर्णम् । १ 'स्वदते' इति कचित् पाठः। २ 'सह' इति कचिनास्ति ।