________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५५ याहि याहीत्ययासीत् । प्रयासद्वा । अधीज्वाधीवेत्यधीते । ध्वंविषये पक्षे अधीनमधीवमिति यूयमधीध्वम् । समुचये तु सक्तून्पिब, धानाः खादेत्य म्यवहरति अचं भुचव, दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत, खादतत्यम्य वहरत । भुनावमास्वादयध्वमित्यभ्यवहरध्वम्। पक्षे हिस्सो। अत्र मोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्ध वत्कृत्य अभावपक्ष श्राह यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङयाह याहि याहीत्ययासीदिति । लुङि उदाहरति अयास्यति । याहि याई त्ययास्यदिति लुकि रूपम् । यास्यति वेति पाठे लुटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाभावपक्ष इत्यर्थः । यूयमधीध्वम् इति । लोएमध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पयस्व पच्यस्वेति पच्यत इत्युदाहार्यम् । अथ 'समुच्चये सामान्यवचनस्य' इत्यस्योदाह ति समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य दन्तसंमदनं दिना भक्षणम् । खादनं तु कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम् , थाकथंचिद् भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाविद् हिस्वादेशी पक्षे इत्यर्थः । पिब खादेत्यभ्यवहरयेत्युदाहार्यम् । अत्रेति । प्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक् । पवमिति याहियाहीति यातः याहियाहीति यान्तीत्येवमूह्यमित्यर्थः । पक्षे इति । 'वा च तध्वनोः' इत्युक्त्वाद् हिस्वाभावपक्ष इत्यर्थः । तध्वमोरित्यत्र तशब्देन मध्यमपुरुष बहुवचनं गृह्यते ध्वंसाहचर्यात् । यद्यपि ध्यवमित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषेकवचनस्य प्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्यत इत्याशयेनोदाहरति यातयातेति यूयमिति । अस्यापि लोटो लङ्त्वात् 'तस्थस्थमिपाम्-' इति यात इत्यत्र यस्य तादेशः । विध्यादिलोड वेषये त्वनुप्रयोगेऽपि यस्य तादेशप्रवृत्तेयूयं यातेत्यनुप्रयोक्तव्यम् । अधीध्वमधीध्वमिति । 'सवाभ्याम्-' इत्यम् । अधीध्ये इति । विध्यादिलोडिषये तु अधीध्वमित्येवानुप्रयोक्तव्यम् । भावकर्मणोस्तु भूयस्वभूयस्वेति भूयते । पच्यस्वपच्यस्वेति पच्यते इत्याद्युग्नेयम् । 'समुच्चयेऽन्यतरस्याम्' इति सूत्रे कियासमभिहारे इत्यननुवर्तनाद् द्वित्वमकृत्वैवोदाहरति सक्तून् पिव धानाः खादेति । अभ्यवहरथेति । विध्यादिलोडिषये तु अभ्यवहरतेत्यनुप्रयोक्तव्यम् । एवम् अभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम् । पते हिवाविति । पिव खादेत्यभ्यवहरथ । भुक्ष्व आस्वादयस्वेत्यभ्यवहरध्वे इत्युदाहार्यम् ।
१ स्वदध्वम्' इति क्वचित् पाठः ।