________________
६५४ ]
सिद्धान्तकौमुदी। [ लकारार्थसामान्यार्थकस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबाद. यश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः । 'क्रियासमभिहारे द्वे वाच्ये' ( वा ४६६५)। याहि याहीति याति । पुनः पुनरतिशयेन वा यानं यन्तस्वार्थः । एककर्तृकं वर्तमान यानं यातीत्यस्य । इतिशब्द स्वभेदान्वये तात्पर्य ग्राहयति । एवं यातः यान्ति। यासि याथः याथ । यात यातेति यूयं यात । सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह सामान्यार्थकस्येति । सनुचीयमानकियासामान्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्ट मानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न संख्याकारकाद्यभिव्यक्तिः तथा च भाष्यम् , 'हिस्वान्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थः' इत्यादि । 'कितासमभिहारे द्वे वाच्ये' इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितले डन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति याहि याहीति यातोति । भाष्ये इति. शब्दस्य दर्शनादिति भावः । हन्तस्येति । याहि याहीत्यस्ये यर्थः । एककर्तृकमिति । यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः। अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमनं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेव मुक्तिः। एवमिति । याहि याहीति यातः। याहि याहीति यान्तीत्यादिसकल पुरुषाचनेषूदाहायमित्यर्थः । याहि याहीति ययौ। याहि याहीति याता। याहि याहीति यार यति । याहि याहीति यातु । लोरामध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल' उक्तः-वा २ तध्वपरास्ताः । द्वे वाच्ये इति । वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम् । इतिशब्दस्त्विति । ननु इति शब्देन व्यवधानाद्यातीत्यस्यानुप्रयोगत्वं कथमिति चेत् । अत्राहु:-अनुशब्दस्येहानुवादित्वमात्रपरत्वाधवहितविपरीतप्रोगयोरिष्टापत्तिः । एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते। न च 'समुच्चये सामान्य. वचनस्य' इति विशेषस्योक्तत्वात्सूत्रकदेशस्य पूर्वस्मिन्निति पदस्य वैयर्थ्यमस्तु नाम । यथाविध्यनुप्रयोग इति तु यथाविधीति नियमार्थ स्वीकर्तव्यमेव, अन्यथा याहि याहीति गच्छतीत्यादि स्यादिति वाच्यम् , यस्मालोड्विधिस्तत्प्रकृतिकतिउन्तस्येवोपस्थितत्वेनानुप्रयोक्तुमर्हत्वान तूपस्थितपरित्यागेन यत्किंचिद्धा नुप्रकृतिकतिङन्तस्यानुप्रयोगाईतेति । अतएव 'स्वं रूपं शन्दस्य-' इत्यपि सूत्रं प्रत्य ख्यातं भाष्यकारेण । 'अमेढक्' इत्यादौ विधिवाक्यगतस्याङ्गारवाचकामिशब्दादेरुपस्थितत्वात् तत्परित्यागेनानुपस्थितवहयादिशन्देभ्यो ढगादिर्न भवेदिति । एवं चास्मिन्प्रत्याख्याते यथाविध्यनु