________________
[६५७
प्रकरणम् ६४] बालमनोरमा-तत्त्वबोधिनीसहिता। पुरुषवचनसंज्ञे इह नेत्युक्त्वात् ।
ছবি নামক
मध्यमषुरुषांशे एकवचनांश च भ्रम एवेत्यर्थः । कुत इत्यत आह पुरुषवचनसंश इह नेत्युक्त्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसंख्याकालकत्वातदभिव्यक्तये अनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मास्तु इत्युक्तम् । एवं च 'तानीमानि क्षुदाण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्' इति श्रुतौ ‘समुच्चयेऽन्यतरस्याम्' इति लोटो हिस्वावेव भवतः, न तनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया संख्याकालाभिव्यक्तरविवाक्षतत्वेन तत्रानुप्रयोगस्य प्रयोजनाभावात् । एतेन 'श्रा च सत्यलोकादावावीचेर्जायस्व नियत्व इति विपरिवर्तमानमात्मानं जीवलोकं चालोक्यास्मिन् संसार नित्याशुचिदुःखात्मकं प्रसंख्यानमुपवर्तते' इति वाचस्पत्यप्रन्थेऽपि जायस्व नियस्वेति व्याख्यातम् । न चात्र 'समुच्चयेऽन्यतरस्याम्' इत्यत्र क्रिशसमभिहारे इत्यस्यान नुवृत्तस्तत्वात् कथमिह पौन:पुन्यावगतिरिति वाच्यम्, प्रा च सत्यलोकादाचावीचेः विपरिवर्तमानम् इति समभिव्याहारेण तदुपपत्तेः । उदाहृतश्रुतौ तु पौनःपुन्यं असकृत्पदगम्यमित्यदोषः । कल्पतरुपन्थे तु जायस्व म्रियस्वेत्यत्र 'क्रियासमभिहार-' इति सूत्रेण लोडित्युतम् । तत्तु द्वित्वापत्तरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपच्चितम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितार्या सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां लकारार्थप्रक्रियानिरूपणं समाप्तम् ।