________________
५६० ]
सिद्धान्तकौमुदी। [भावकर्मतिङ्सकलधातुवाच्या भावार्थकलकारेणान्यते । युष्मदस्मद्भयां सामानाधिकरण्याफलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यागरस्यैव कियात्वात् । तदुक्तम्-'व्यापारो भावना सैवोत्पादना सैव च किया' इति । ननु उत्पत्त्यनुकूल. व्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्यादितत्तफलोत्पत्त्यनुकूलव्यापारर्थकत्वं तु न संभवति । एकैकस्य धातोविक्लित्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्तानुपपत्तेरित्यत आह सा च धातुत्वेन सकलधातुवाच्येति । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिक क्रियामाहुः । पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता संगच्छते इति भावः । तथा च भट्टिराहअन्येन 'भूवादयो धातवः' इत्यत्र क्रियावाचिनः किम, विकल्पार्थकवाशब्दाद्भावे चिण माभूत् । अन्यथा भ्वादिगणे वाशब्दमात्रपठनादक्रियावाचिनोऽपि वाशब्दस्य धातुत्वे 'धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते' इति विकल्पस्यापि भावत्वापत्त्या तद्वाचकवाशब्दाल्लिट् स्यादेवेति केषांचियाख्यानं परास्तम् । भावनावाचकादेव भावे लिटः स्वीकारात्। विकल्पस्य तु भावनाभिन्नत्वात् । अन्यथा कियावाचिन इति विशेषणे दत्तऽपि तद्दोषतादवस्थ्यात् । विकल्पवाचकाल्लिडभावेऽपि लडादयः स्युरिति तु न शङ्कनीयमेव । वर्तमानक्रियादिवृत्तेर्धातोरेव लडादीना विधानात् । किमर्थं तर्हि क्रियावाचिनो भ्वादय इति सवेरेव तत्र व्याख्यातम् । याः पश्यसीत्यत्रापि लक्षणप्रतिपदो. कपरिभाषया याशब्दस्य धातुत्वासंभवाद् 'आतो धातोः' इति तत्राल्लोपाप्रसक्तिरिति चेत् । अत्राहः-"कायेकालं संज्ञापरिभाषम्' इति पक्षे 'आतो धातोः' इति कार्यप्रदेशे 'भवादयो धातवः' इत्युपतिष्ठते, भ्वादिषु याशब्दमात्रपठनाद् द्रव्य वाचकोऽपि याशब्दस्त. त्रोपतिष्ठते । वर्णप्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रतः । 'प्रातो धातोः' इत्यत्र त्वात इति वर्णग्रहणात् । तस्माद् द्रव्यवाचकस्य याशयस्य धातुसंज्ञा माभूदिति कियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति । उत्पादना क्रियेत्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति वेषांचिदाक्षेपो निरस्तः। उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात् । तदुक्तम्-'व्यापारो भाषना सैवोत्पादना सेव व किया' इति । धातुत्वेनेति । सकलधातुषु धातुत्वं जातिरखण्डोपाधिवेत्यन्यदेतत् । तच्च वाचकतावच्छेदकम् । क्रियात्वं तु वाच्यतावच्छेदक मेति भावः । धातु. वाच्येति । नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिकियेति क्रियाविशेष्यको