________________
प्रकरणम् ६२ ]
बालमनोरमा-तत्वबोधिनीसहिता
[ ५८६
वाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन स्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति | 'चिरभावकर्मणोः' इत्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः । कवेयं भाव इत्यादी अभिप्रायः ।
'भाव: पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु
भूत्यभिप्रायजन्तुषु ॥'
इति नानार्थरत्नमाला | 'भावः सत्तास्वभावाभिप्राय चेष्टात्मजन्तुषु' इत्यमरः इह तु 'लः कर्मणि -' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह भावो भावनेति । 'लः कर्मरिण -' इत्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थं काद्धेतुमण्णौ वृद्धयावादेशयोः भाविशब्दाद् 'एरच्' इति भावे चि गिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धे तु मराण्यन्तात् स्त्रियामित्यधिकारे 'रायासन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति वोध्यम् । उत्पादना चेयं धात्वर्थानातिरिच्यते इति दर्शयितुमाह क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथा हि फलव्यापारयोर्धातुरिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको विक्कि - त्यनुकूलव्यापारः । तत्र विक्लित्त्यशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता, धातूपात्तव्यापाराश्रयः कर्तेति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम्, तदाश्रयत्वादोदनं कर्म, व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् । 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृद्धयनुकूलव्यापारो धात्वर्थः । न चैवं सति एधते देवदत्त इत्यत्र धातूपात्त - व्यापाराश्रयत्वाद्व्यापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्वं कर्मत्वं च स्यादिति वाच्यम्, धातूपात्त व्यापारजन्यतयापारव्यधिकरणफालाश्रयत्वं कर्मत्वमिति सिद्धान्तात् । एवं च
कर्मणोः' इत्यतो भावकरणोरिति चानुवर्तते । भावो भावनेति । उत्पत्त्यर्थाद्भवतेणिजन्तादेरजिति भावः । ' एरज्यन्तानाम्' इति त्वनार्षमिति तस्मिन्नेव सूत्रे कैयटः । भवतेरुत्पत्त्यर्थत्वं एयन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वं च दर्शयति उत्पादनाक्रियेति । यथा करोति घटमित्यादावुत्पत्त्यनुकूलो व्यापारः कुलालनिष्ठः, तथा भावयति घटमित्यादावपि । भवति घट इत्यत्रापि घटनिष्ठ उत्पत्त्यनुकूलो व्यापारोऽस्त्येव, परंतु फलसमानाधिकरणः सः । कुलालनिष्ठस्तु फलव्यधिकरण इतीयान्मेदः । अत एव फलव्यापारयोः सामानाधिकरण्याद्भवत्यादिरकर्मकस्तयोस्तु वैयधिकरण्यात् करोत्यादिः सकर्मक इत्याहुः । एतेन भावो भावनेत्यादि