________________
प्रकरणम् ६१
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८५
उपरमति, उपरमते वा निवर्तते इत्यर्थः । २७५२ बुधयुधनराजने ङ्प्रद्रुस्रुभ्यो णेः । (१-३-८६ ) एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । 'णिचश्च' ( सू २५६४ ) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयीत दुःखम् । जनयति सुखम् । श्रध्यापयति । प्रावयति, प्रापयतीत्यर्थः । द्वावयति, विज्ञापयतीत्यर्थः । स्नावयति, स्यन्दयतीत्यर्थः । २७५३ निगरणचलनार्थेभ्यश्च । ( १-३-२७ ) निगारयवि । श्राशयति । भोजयति । चलयति ।
9
1
उपाद्रमेरिति । बुधयुध । बुध युध नश जन इड् प्रु त्रु एष द्वन्द्वः । बोधयति पद्ममिति । सूर्य इति शेषः । बुधिर्विकसनार्थकः । विकसति तहिकासयति सूर्य : त्यर्थः । 'अणावकर्मकाञ्चित्तवत्कर्तृकात्' इति परस्मैपदं तु न सिध्यति, अणौ पद्मन्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् । योधयति काष्ठानीति । काष्टानि रुध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अरणावचित्तवत्कर्तृकत्वाद् 'अणावकर्मकात् -' इत्यस्य न प्राप्तिः । अत एव योधयति देवदत्तमिति नोदाहृतम्, 'अणावर्मकाचित्तवत्कर्तृकात्' इत्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुःखं नश्यति, तद् नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तद् जनयति हरिरित्यर्थः । अध्यापयतीति । श्रधीते वेदं विधिः, तमध्यापयती यर्थः । 'प्रु गतौ ' इत्यस्योदाहरति प्रावयतीति । गत्यर्थकत्वं मत्वाद प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं तद् द्रावयतीत्यर्थः । धातोद्रवीभावार्थकत्वं मत्वाह विलापयतीत्यर्थ इति । स्स्रावयतीति । स्रवति जलं तत्स्रावयतीत्यर्थः । धातोः स्यन्दनार्थकत्वं मत्वाह स्यन्दयतीत्यर्थ इति । 'प्रीति भक्तजनस्य यो जनयंते' इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनः हरौ प्रीति जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताराणौ रूपम् । प्रयोज्यकर्तुः शेषत्ववि - वक्षया भक्तजनस्येति पष्ठीत्याहुः । निगरण-निगरणं भक्षणम्, चलनं कम्पनम्, एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे दुर्गा प्रहणं तु अचलनार्थानामेव । श्रतएव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि भक्षणमेव ' अपोऽश्नाति' इति श्रुतेः ! अत एव'न पादम्याङ्य वायस -' इति सूत्रे पाहणमर्थवत् । 'न पीयतां नाम चकोर जिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुख
यथा स्यादिति । निगरणचलनार्थेभ्यश्च । निगरणं भक्षणम् । प्रुदुवर्णा चलनार्थानामनेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे प्रहणम् । अत एव तत्र विवृतं प्रापयतीत्यर्थ इत्यादिना । कथं तर्हि 'इमां किमाचामयसे न चक्षुषी' इति श्रीहर्षः । श्राङपूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत् । श्रत्राहुः - श्राचाम