________________
५६२ ]
सिकोमुदी !
[ पक्र
तजित:-' इत्यादिपञ्चसूया यदात्मनेपदं विहितं तरसनपधारन लेन क्रियाफलस्य कर्तृगामिखे योतिते वा स्यात् । स्वं यज्ञं वदति यजते वा । हवं कटं करोति, कुरुते वा । स्वं पुत्रमपवदति, अपवदते वा । स्वं यज्ञ कारयति, कारयते वा । स्वं व्रीहिं संयच्छति, संयच्छ्रते वा । स्वां गां जानाति जानीते वा । इति तिहन्ते आत्मनेपदप्रकरणम् ।
S
अथ तिङन्ते परस्मैपदप्रकरणम् ॥ ६१ ॥
'शेषात्कर्तरि परस्मैपदम् ' ( सू २१५९ ) । अति । २७४५ अनुपराभ्यां इति प्रथमान्तस्य कथमिदान्वय इत्यत आह नृपेणेति विपरिणाम इति । धवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः । विभाषोपपदेन । स्वरितत्रित इत्यादीति । 'स्वरितनितः कर्त्र - भिप्राये क्रियाफले, अपाद्वदः, णिचश्च समुदाङ्भ्यो यमोऽप्रन्थ, अनुपसगज्ज्ञ : ' इति पञ्चसूत्रीयर्थः । समोपोच्चारितं पदमुपपदम्, न तु 'तत्र पपदं सप्तमीस्थम्' इति संकेतितम्, असंभवात्, तदाद्द समीपोश्चारितेन पदेवेति । फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमिति 'न देनि विभाषा' इति सूत्रे भाष्ये स्पष्टम् । स्वं यशमिति । स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्यात्सगा सित्वावगमात् ' स्वरितत्रितः -' इति नित्यात्मनेपदस्यानेन विकल्पः । स्वं यज्ञं कारयतीत्यत्र 'चिश्च' इत्यस्यानेन विकल्पः । स्वं बोहिनिति । अत्र 'समुदा भ्यो यमः' इत्यस्यानेन विकल्पः । स्वां गामिति । श्रत्र 'अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः ।
इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तको मुदीव्याख्यायां बालमनोरमाख्यायां आत्मनेपदव्यवस्था समाप्ता ।
अथ परस्मैपदव्यवस्था निरूपयितुमुपक्रमते शेष त्कर्तरीति । अनुप र्मकाच्च' इत्येव सिद्धे सकर्मकार्य आरम्भः । विभाषोपपदेन । उपपदेन फलस्य कर्तृगामित्वे द्योतिते तङोऽप्राप्तावत्राप्तविभाषेयम् । कर्तृगामिनि क्रियाफले नित्ये प्राप्ते प्राप्तविभाषेत्यन्ये । स्वं यज्ञमिति । स्वमित्युपलक्षणम्। स्वार्थ यज्ञं यजति । आत्मार्थ यज्ञं यजति इत्याद्यपि बोध्यम् । इति तत्त्वबोधिन्यामात्मनेपद प्रक्रिया प्रकरणम् ।
1
शेषात्कर्तरि । 'अनुदात्तङित -' इत्यादिष्वात्मने पदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथा च कर्तरि परस्मैपदमित्यनेन रस्मैपदमेवेति नियमिते तद्भिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्रतिपत्त्यर्थमित्य हु: । 'अनुदात्ततिः-' इत्यादिष्वेवात्मनेपदमिति नियमात् 'शेषात्कर्तरि-' इत्यनेन परस्मैपदमेव तत्र भवि