________________
प्रकरणम् ६० ] बालमनोरमात्तत्त्वबोधिनीसहिता। [५७६ किम्-स्मरति वनगुल्म कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृती भूत् । स्मरति वनगुल्म कोकिल इति । स्मृतिविषयत्वमापादयतीत्यर्थः । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्ष स्मरति वनगुल्म इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः । स्मरयति वनगुल्मं कोकिल इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । अध्यारोपितप्रेषणपक्षे तु स्मरयति वनगुल्मः कोकिलमिति द्वितीयकक्ष्या। स्मरन्तं प्रेरयतीत्यर्थः । स्मरयति वनगुल्म इति । प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्यास्मरति वनगुल्ममिति । पक्षद्वयेऽपीयं प्रथमकक्षा। स्मरयति वनगुल्म इति । निवृत्तप्रेषणपक्ष चतुर्थकक्षेयम् । अध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम् । केचित्त एतत्सूत्रस्थ भाष्ये दर्शयते भृत्यान् राजेत्युदाहरणम्, स्मरयत्वेन वनगुल्म इति प्रत्युदाहरणं च दृश्यते । ततश्च अध्यारोपितप्रषेणपक्षे द्वितीयकक्षायामेवाननात्मनेपदं भवति न तु तृतीयकक्षायामिति प्रतीयते। तथा च कर्मपदमावर्त्य तस्य क्रियावाचित्वं स्वीकृत्याणी या क्रिया सैव चेएण्यन्तेनोच्यतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाधिक्यं न व्यवच्छिद्यते किं तु न्यूनतैवेत्यस्मादेव भाज्यादवगम्यते । एवं च दर्शयते भव प्रारोहयते इस्तीति कर्मप्रयोगरहितं मूलग्रन्थस्योदाहरणम् , स्मरयति वनगुल्म इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः । अन्यस्त्वविवक्षितमिह कर्मेत्युक्त्वाऽत्र मूलप्रन्याविरोधेनैव भाष्यग्रन्थः समर्थितः । तेषामयमाशयः-गभीरायां नद्या घोष इत्यत्र गभीराभिननद्यामिति गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायां तीरस्य गभीरत्वाभावानद्यास्तु गभीरत्वेऽप्येकदेशान्वयासंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकबोधमादाय सार्थकं तद्वदिहापि अध्यारोपितप्रेषणापक्षे द्वितीयकक्षायां कर्मण्यन्वितम् , ततो णिजर्थस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राभिकबोधमादाय सार्थक्यम् । वबोध्यसंबन्धो लक्षणेत्यभ्युपगमात् । विशिष्टवाक्यार्थस्य चेह बोध्यत्वेन तत्संबन्धस्य बोधकतारूपस्य वाक्ये सत्त्वात् । एषैवार्थवादैः प्राशस्त्यलक्षणाया गतिः। अन्यथा 'वायव्यं श्वेतमालभेत भूतिकामः' इत्यादिविधिवाक्यस्य योऽर्थवादः 'वायुर्वं क्षेपिष्ठा देवता, वायुमेव खेन भागधेयेनोपधावति' 'स एवेनं भूतिं गमयति' इत्यादिस्तत्र वायुमेव स्वेन भागधेयेन स एवैनमित्यादिरूपस्य विभक्तिभेदन प्रयोगस्य वैयर्थ्य स्यादिति। नन्वेतत्सूत्रस्योदाहरणं च यथाश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनन विद्यमानकर्मणोऽविवक्षितत्वोपपादनक्शेनेति चेत् । मैवम् । निवृत्तप्रेषणपक्ष दर्शयते भव इत्याधुदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्तव्यतया तदैकरूप्यस्यास्मिनपि पक्षे अकर्मकोदाहरणप्रत्युदाहरणयोः