________________
५७८ ]
सिद्धान्तकौमुदी ।
[ श्रात्मनेपद
प्रेषययस्यागे दर्शयते प्रारोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पत्ते द्वितीयकक्ष्यायां न त । समानकियास्वाभावावियजर्थस्याधिक्यात् । अनाध्याने
दर्शयति भव इति भक्कानिति शेषः, तदाह पश्यत श्ररोहतश्च प्रेरयतीत्यर्थ इति । चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्र हेतुमरिणच् । तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम् । णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः । चतुर्थकचयामाह ततो णिज्भ्यामिति । हेतुमणिणज्भ्यां तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयते भवः, श्रारोहय हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भवं मक्का इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनथ तृतीयकक्ष्यायां कर्तृत्वात् प्रथमकक्ष्यायां प्रणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाचेति तृतीयकक्ष्याया - मुदाहरणे सूत्रप्रवृत्तिरुपपाया । न च प्रथमकक्ष्यायां चाक्षुषज्ञानविषयं कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणांशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सेव चेरारायन्तेनोच्येतेत्यंशस्य कथं प्रवृत्तिरिति वाच्यम्, सैव चेरारायन्तेनेत्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् । ननु द्वितीयकक्ष्यायामेव कुतो न तत्यित माह श्रस्मिन्पक्षे द्वितीयेति । कुत इत्यत श्राह समानक्रियात्वाभावादिति । द्वितीयकक्ष्यायां प्रणौ या क्रिया सैव चेराण्यन्तेनोच्येतेत्यंशस्याभावादिति यावत् । तदेवोपपादयति णिजर्थस्येति । गोरिति किम् ? पश्यत्यारोहतीति निवृत्तप्रेषणान्मा
णार्थः । श्रधिक्यादिति । अस्मिन्पत्रे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनत्वमपि । अन्यथा तृतीयकतायामपि तद् न स्यात् । प्रकृत्युपात्तप्रेषणांशस्य त्यागेन न्यूनतायाः सत्त्वादिति भावः । येोरिति किम् पश्यत्यारोहतीत्यादिनिवृत्त प्रेषणान्माभूत् । न च गौ चेदिति श्रुतत्वाद्रायन्तादेव स्यादिति वाच्यम्, श्रणावित्यस्यापि श्रुतत्वात् । तस्याप्रिमयोगार्थमवश्यकर्तव्यस्य स्पष्टार्थमिहैव कर्तुमौचित्याश्च । श्रणौ या क्रिया सैव चेरारायन्ते इति किम्, दर्शयति भवः । श्रारोहयति हस्तीत्यध्यारोपितप्रेषणपत्रे द्वितीयकत्वायां माभूत् । कथं तर्हि 'करेणुरारोहयते निषादिनम् इति माघप्रयोगः, 'स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधुबन्धुताम्' इति भारविप्रयोगश्च संगच्छत इति चेत् । अत्राहुः - ' णिचश्च' इत्यनेन क्रियाफले कर्तृगामिनि तद् न तु प्रकृतसूत्रेणेति । श्रणौ यत्कर्म कारकं णौ चेत् कर्तेति किम्, दर्शयन्ति भवमिति निवृत्तप्रेषणपत्रे तृतीयकक्षायां माभूत् ।