________________
प्रकरणम् ६० ] बालमनोरमा-तत्वबोधिनीसहिता। [५७७ आरोहन्ति हस्तिनं हस्तिपकाः, न्यग्भावयन्तीत्यर्थः । तत भारोहति हस्ती, न्यग्भवतीत्यर्थः । ततो णिच् प्रारोहयन्ति । आरोहन्तीत्यर्थः । तत प्रारोहयते, न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् । ततः कर्मण एव हेतुस्वारोपारिणच् । दर्शयति भवः। श्रारोहयति हस्ती। पश्यत धारोहतश्च प्रेरयतीत्यर्थ । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोयोरपि तत्र प्रथमकक्ष्यामाह आरोहन्ति हस्तिनं हस्तिपका इति । हस्तिनं पान्तीति हस्तिपाः । त एव हस्तिपकाः । स्वार्थे कः । उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थः। तत्र प्रासादमारोहतीत्यादौ उपरिभागाकमणानुकूलव्यापारः सोपानगमनादिः । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाकमणानुकूलो व्यापारो विवक्षितः । नच्च नीचीकरणम्, तदाह न्यग्भावयन्तीति । अत्र उपरिभागाक्रमणानुकूलन्य ग्भवनानुकूलोऽङ्कुशपातादिः व्यापारः। उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः । अथ द्वितीयकच यामाह तत इति । प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थवालटि आरोहति हस्तीति भवतीत्यर्थः । प्रेषणांशपरित्यागे फलितमाह न्यग्भवतीत्यर्थ इति । अथ तृतीयकक्ष्यामाह ततो णिजिति । प्रेषणांशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद् धातोः प्रेषणविवक्षायां हेतुमरिणजिति भावः । प्रारोहयन्तीति । हस्तिनं हस्तिपका इति शेषः । प्रेषणांशनिवृत्तौ णिज. न्तस्य फलितमर्थमाह आरोहन्तीत्यर्थ इति । अाक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह तत इति । अविवक्षितप्रेषणाद् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे श्रारोहयते इति रूपमित्यर्थः । प्रेषणांशत्यागे सति एयन्तस्य फलितमर्थमाह न्यग्भवतीत्यर्थ इति । तदेवं 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति पक्षमाश्रित्योदाहृतम् । इद नीमध्यारोपितप्रेषणपक्षमाश्रित्याह यद्धति । पश्यन्तीति। पश्यन्ति भवं भक्तः इति, आरोहन्ति हस्तिनं हस्तिपका इति च, प्रथमकक्ष्या पूर्वदद्याख्येयेत्यर्थः । द्वितीयः दयामाह ततः कर्मण इति । दृशेः रुहेश्च प्रथमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमरिणजित्यर्थः । आरोहति हस्तीति । प्रेषणांशत्यागे उदाहरणमिदम् । ततो णिजिति । निवृत्तप्रेषणाद्धातोः प्रेषणांशविवक्षायां णिजित्यर्थः । पुनरार्थर्थस्याविवक्षायामुदाहरणमाह आरोहयत इति । एवं निवृतप्रेषणपक्षमुपपायेदानीमध्यारोपितप्रेषणपक्षमाह यद्वेति । हेतुत्वारोपादिति । प्रयोजककर्तृत्वारोपादित्यर्थः। अत्रापि सौकर्यविवव बीजम् । पश्यत इति । पश्यतो भक्वान् आरोहतो हस्तिपकानिति क्रमे