________________
५७६ ]
सिद्धान्तकौमुदी। [प्रात्मनेपदर्योश्च तुल्योऽर्थः । तत्र तृतीयकचयायां न तङ्। क्रियासाम्ये प्यणौ कर्मकारकस्य णो कर्तृत्वाभावात् । चतुझं तु तङ्। द्वितीयामादाय क्रियासाम्यात् । प्रथमायो कर्मणो भवत्येह कर्तृत्वाच । एवमारोहयते हस्तास्यप्युदाहरणम् । कूलव्यापारान्तरस्यापि प्रवेशापत्तेः । तृतीयं वाक्यं विदं दर्शयन्तीति, एयर्थस्याविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्त घटितस्योपपादकमिति स्पष्टीव । तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भने भक्ता इत्यनयोः, तथा पश्यति भवः, दर्शयते भवः इति द्वितीयचतुर्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः । तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेय॑न्तत्वाभावादेव तो न प्रसक्तिरिति मत्वाह तत्र तृतीयकक्ष्यायां न तङिति । कुत इलात आह क्रियासाम्येऽपीति । दर्शयन्ति भवं भक्का इति तृतीयकक्ष्यायाः, पश्यन्ति भवं भक्काः, इति प्रथमकक्ष्यासमानार्थकतया अणौ यः क्रिया सैव चेएण्यन्तेनीच्यतेत्यंशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायां णौ कर्तृत्वाभावादित्यर्थः । एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्यु. दाहरणं चेत्युक्तं भवति । अणौ या क्रिया सैव चेएण्य नोच्यतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तदिति फलं वक्ष्य ।। चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह चतुर्थ्यां तु तङिति । 'णेरणौ-' इति प्रकृतसूत्रेणेति शेषः । तदेवोपपादयति द्वितीयामादायेति । पश्यति भवति द्वितीयकक्ष्याय या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भा इति चतुर्थकक्ष्यायां एयन्तदृश्यर्थत्वादित्यर्थः । अनेन अणौ या क्रिया सैव चेएण्यन्तेनोच्यतेत्यंश उपपादितः। अथ अणो यत्कर्मकारकं गौ स चेत्कर्ता च्यादित्यशमुपपादयति प्रथमायामिति । पश्यन्ति भवं भक्ता इति प्रथमकक्ष्यायाम श्रण्यन्तदृशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्यायो ग्यन्त:शिकर्तृत्वाचेत्यर्थः । अथ कर्तृस्थक्रियधातुमुदाहरति एवमारोहयते हस्तीत्यप्दाहरणमिति । च स्वार्थ एव णिजिति पर्यवसानादाह द्वितीयचतुोरिति । तुल्योऽर्थ इति । न्यूनाधिकभावरहितः । तत्र तृतीयेति । प्रथमाद्वितीययोस्तु एयन्तत्वाभावात् तङः प्रसक्तिरेव नास्तीति भावः । क्रियासाम्येऽपीति । प्रथमकक्षया सहेत्यर्थः । द्वितीयामादायेति । अणौ या क्रिया सैव चेद् ण्यन्ते इ यस्य न्यूनाधिकभावव्यवच्छेदपरत्वमभ्युपेत्येदमुक्तम् । यदा त्वधिकव्यवच्छेदमात्रपः त्वमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति । इदानी कर्तृस्थकियाकमुदाहरति एवमित्यादिना ।
१--'कक्षायाम्' इति कचित् पाठः।