________________
प्रकरणम् ६० ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५७५
भवतीत्यर्थः । ततो हेतुमणिच्, दर्शयन्ति भवं भक्ताः, पश्यन्तीत्यर्थः 1 पुनर्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुतेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव, तदाह विषयो भवतीत्यर्थ इति । लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः । न चात्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्कयम्, 'कर्मवत्कर्मणा -' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शवादिकमेवेति भावः । तत इति । कृञ्धातुगम्यं प्रेषगांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्हशे है तुम रिणजित्यर्थः । दर्शयन्ति भवं भक्ता इति । चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः, तदाह पश्यन्तीत्यर्थं इति । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । पुनरिति । चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भवं भक्ता इत्युक्तोदाहरणे जिर्थस्य श्रपादनांशस्य श्रविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः । अत्र यन्तस्य प्रेरणारहितेऽर्थे लक्षणा । गङ्गायां घोष इत्यत्र टाप इव णिचः स्थितिः । चुरादेरा कृतिगणत्वात् स्वार्थिको गिजित्यन्ये । इहेति । अवस्था पदविशेषात्मकावयवसंनिवेशविशेषः । प्रथमा च तृतीया च प्रथमतृतीये । तयोरवस्थयोरिति विग्रहः । 'सर्वनाम्नो वृत्तिमात्रे -' इति प्रथमाशब्दस्य पुंवत्त्वम् । पश्यन्ति भव भक्ता इति प्रथमावस्था । पदविशेष संदर्भ इति यावत् । श्रवस्थैव कक्ष्येति व्यवहरि - ष्यते मूले। कक्ष्या हि राजधान्यादौ जनविशेषसंघात निवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा रामायणे - 'आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्' इत्यादि । इदं च प्रथमवाक्यम्, प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञान विषयत्वापादने दृश्यर्थे प्रेरणांशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असंभवात् । प्रेरणांशत्यागे पश्यति भव इति द्वितीया कदया तु, दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमणिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य, पश्यन्ति भवं मक्ता इति प्रथमवाक्य समानार्थकस्य उपपादिका, चाक्षुषज्ञानविषयत्वापादनानुवृ लव्यापारार्थवृत्तेर्दृशेर्हेतुम रिणचि चाक्षुषज्ञानविषयत्वापत्त्यनु
अत्राहुः - आरोहणादौ सपरिस्पन्द एव देवदत्तादिर्यथा साधनं तथा दर्शनश्रवणादौ न भवति किंतु स्पन्दन रहितोऽपीति नोक्तदोष इति । कर्तृस्थभावकमुदाहरति पश्यन्तीति । प्रेरणांशेति । सौकर्यविवक्षयेति भावः । तत इति । त्यक्त मेरे णांशकाद्धातोरित्यर्थः । पुनर्यर्थस्येत्यादि । न चैवं णिजपि गच्छतीति दर्शयते भव इति न सिध्येदिति वाच्यम्, उपायनिवृतावप्युपेयानिवर्तनादिति कैयटोक्लेः । एवं