________________
५७४ ]
सिद्धान्तकौमुदी। [आत्मनेपदभक्ताः, चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे पश्यति भवः, विषयो किया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणा-' इत्यस्य तु कर्मस्थभावकाः कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा-' इति सूत्रे च भाष्ये स्पष्टम् । अतो विषयभेदात् । 'कर्मवत् कर्मणा-' इत्यनेन ‘णेरणौ-' इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः, यथा दर्शनश्रवणादिः । सपरिस्पन्दनसाधनसाध्यो धात्वर्थः क्रिया, यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति पश्यन्ति भवं भक्ता इति । सकर्मकेषु धातुषु, फलव्यापारयोर्धातुर्वर्तते । यथा पचेविक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादियापारः। धातूपात्तव्यापाराश्रयः कर्ता देवद. त्तादिः । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म। यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् । अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्यनुकूलव्यापारोऽर्थः। तत्र ज्ञानविषयत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्यापारो देवदत्तनिष्ठः । एवं च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते, तदेतदाह चातुषज्ञानविषयं कुर्वन्तीत्यर्थ इति । प्रेरणेति । यदा चाक्षुषज्ञानविषय. त्वापत्तिरेव दृशेरों विवक्षितः । न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशः। तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः । सौकर्यातिशयविवक्षया अनुकूलव्यापारांशस्य अविवक्षा बोध्या। तथा च चाक्षुषज्ञानविषयत्वापपरत्वाद् 'विभाषोपपदेन-' इत्यस्य प्रवृत्ती न किंचिद्वाधकमस्ति । ततोऽपि परत्वाद् 'अणावकर्मकात्-' इति परस्मैपदमेव स्यादिति तद्बाधेन पूर्वविप्रतिषेधे स्वीकृते 'विभाषोपपदेन-' इत्यस्याप्यर्थात्पूर्वविप्रतिषेधेन बाधो जात एवेति चेत्, एवं तर्हि दर्शयते राजेति भाष्यप्रयोगस्य केवले चरितार्थत्वात्सोपपदप्रयोगे 'अणावकर्मकात्-' इति परस्मैपदमेवास्तु । तत्रापि पूर्वविप्रतिषेधेन ‘णेरणी-' इत्यस्य प्रवृत्तौ मानाभावादिति दिक् । 'कर्मवत्कर्मणा-' इत्यनेन गतार्थत्वशङ्का निरस्यति कतस्थभावका इति । अपरिस्पन्दनसाधनसाध्यो धात्वर्थों भावः । सपरिस्पन्दनसाधनसाध्या तु क्रिया । साधनं कारक तत्साध्यत्वाद्धात्वर्थस्य । ननु नृत्यन्तं भवं पश्यतीत्यत्र दृशेः कर्तृस्थ. भावकता न स्यात्, किं तु कर्तृस्थक्रियाकतैव स्यात् । न च साधनशब्देन लकारवाच्य कारकं विवक्षितमिति वाच्यम् , नृत्यन्भवः पश्यतीत्यत्र तद्दोषतादवस्थ्यादिति चेत् ।