________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्ववोधिनीसहिता। [५७३ प्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथाहि-पश्यन्ति भवं सावकाशत्वादित्यत आह कर्वभिप्राये त्विति । पूर्वविप्रतिषेधेनेति । पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते इति भाज्यप्रयोगो मानम् , अन्यथा तत्र 'अणावकर्मकात्-' इति परस्मैपदापत्तेः । दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च । 'विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति । एवं च कर्तृगामिनि क्रियाफले परत्वाद् 'अणावकर्मकात्-' इस्य प्रवृत्तौ न किंचिद्वाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्यमित्याहुः। तश्चिन्त्यम्, अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्ते. रत्वात् । नहि 'अणाव कर्मकात्-'इत्यत्र कमिप्राय इत्यस्ति । 'स्वरितजितः कर्त्रभिप्राये-' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यत्र स्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्य 'कर्मवकर्मणा-' इति कर्मवद्भावाद् ‘भावकर्मणोः' इत्यात्मनेपदसिद्धेः 'णेरणौ-' इति सूत्रं व्यर्थमित्यत आह वर्तृस्थेति । कर्तृस्थो भावो येषां ते कर्तृस्थभावकाः, कर्तृस्था बोध्यम् । विकल्प ति । परत्वात्प्राप्ते इत्युत्तरेणान्वयः । पूर्वविप्रतिषेधेनेति । 'विभाषोपपदेन--' इलास्यावकाशः खं यज्ञं यजति, खं यज्ञं यजते इत्यादि । णेरणावित्यस्य तु दर्शाते राजेत्यादि । तथा 'अणावकर्मकात्-' इत्यस्य शेते कृष्णस्तं गोपी शाययतीत्यवकार : । 'णेरणौ-' इत्यस्य तु लावयते केदारः स्वयमेवेति । तत्र हि लूयते केदार इति दितीयकक्षायामणावकर्मकत्वादिति भावः । न च पश्यति भव इतिवद् द्वितीयकक्षायां लुनाति केदार इत्येव प्रयोग इति भ्रमितव्यम् । लवनस्य कर्मणस्थक्रियात्वेन 'कम्वत्कर्मणा-' इति यगात्मनेपदप्रवृत्तः। नव्यास्तु 'अणावकमकात्-' इत्यस्य बाधे दर्शयते राजेति भाष्यप्रयोगो मानम् । तत्र हि निवृत्तप्रेषणपने दृशेरणावकर्मकत्वात चित्तवत्कर्तृकत्वाच परस्मैपदप्राप्तेः । 'विभाषोपपदेन-' इति विकल्प. बाधे तु न किंचिन्मानम् । किं च 'अणावकर्मकात्-' इत्यस्य बाधेऽपि नास्त्येव प्रमाणम् । पूर्वोकभाष्यस्य परगामि ने कियाफले चरितार्थत्वात् , तथा च कर्तृगामिनि क्रियाफले परत्वाद् 'अणावकर्मकात्- इत्यस्य प्रवृत्तौ न किंचिद्वाधकमस्तीति पूर्वविप्रतिषेधेनेदमे वेष्यत इत्येतचिन्यमित्य हुः। वस्तुतस्तु 'गरणौ-' इति सूत्रस्याचित्तवत्कर्तृकेऽपि लाक्यते केदार इत्यादौ परितार्थवादु "अणावकर्मकात्-' इत्यनेन परगामिनि क्रियाफलेऽपि परत्वात्परस्मैपदे प्राप्त दर्शयते राति भाष्यप्रयोगबलात्पूर्वविप्रतिषेधाभ्युपगमेन 'गारणी- या मनेपदप्रवृत्तावपि आत्मार्थ दर्शयते स्वार्थ दर्शयते इत्यादौ