________________
५७२ ]
सिद्धान्तकौमुदी। [ आत्मनेपदकर्ता स्यान स्वाध्याने । 'णिचश्च' (सू २५६४) इति सिद्धेऽक त्रभिप्रायार्थमिदम् । कभिप्राये तु 'विभाषोपपदेन-' (सू २७४५) इति विकलो 'अणावकर्मकात्-' (सू २७५४) इति परस्मैपदे च परत्वात्प्राप्से पूर्वविप्रतिषेधेनेदमेवे. कर्ता स्यादिति । अत्र तच्छन्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुंल्लिङ्गता ज्ञेया, 'शल्यं हि यत्सा प्रकृतिलस्य' इतिवत् । अथ 'अनाध्याने' इति चतुर्थ वाक्यं व्याचष्टे न त्वाध्याने इति। आध्यानमुत्कण्ठापूर्वकं स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु प्राध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नमोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन समासासंभवात् एयुदास एवायम् । 'न त्वाध्याने' इति मूलं तु फलितार्थकथ नपरमेव । तथा च प्राध्यानभिनेऽर्थे विद्यमानाद् ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव प्राध्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् । वाक्यत्रयमित्येव च भाष्ये दृश्यते । ननु 'णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत अाह णिचश्चतीति । परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः । स्यादेतत् , 'विभाषोपपदेन प्रतीयमाने' इति सूत्रं वक्ष्यते । कर्तृगामिनि क्रियाफते यदात्मनेपदं विहितम् , तद् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः । खं यज्ञं यजति यजते वेत्यायुदाहरणम । 'णेरणौ-' इत्यस्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यत इति स्थितिः। तत्र दर्शयते भवः खयमेवत्यत्र फलस्य कर्तृगामित्ववि. वक्षायां 'णेरणी-' इति नित्यमात्मनेपदमिष्यते । तत्र परत्वाद् विभाषोपपदेन-' इति विकल्प: स्यात् , 'णेरणौ-' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् । किंच 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति वक्ष्यते । अण्यन्ते यो धातुर. कर्मकः चित्तवत्कर्तृकश्च तस्माद् ण्यन्तात् परस्मैपदं स्यादिति तदर्थः । शेते कृष्णः । तं गोपी शाययतीत्युदाहरणम् । 'णेरणौ-' इत्यस्य तु दर्शयते भव इत्युदाहरणं विषय इति स्थितिः । तत्र लूधातोः लुनाति केदारं देवदत्त इत्यत्र चित्तवत्कर्तृकत्वाद् लयते केदार इति कर्मकर्तरि, कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच लावयते केदार इति ण्यन्ताद् ‘णेरणौ-' इत्यात्मनेपदं बाधित्वा परत्वाद् 'अणावकर्मकात्-' इति परस्मैपदमेव स्यात् । 'णेरणौ-' इत्यस्य दर्शयते भव इत्यत्र कारकविशेषपरः, शब्दाधिकाराश्रयणात्तदेतद्याचष्टे अणौ यदित्यादिना स्यादित्यन्तेन । अनाध्यान इति वाक्यान्तर व्याचष्टे न त्विति । श्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः । अस्मिन्पने आध्यानमिन्ने इत्यर्थे सति फलितो न त्वाध्याने इति नेयः। तथा च अत्र वाक्य त्रयमेवेति