________________
प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७१ वहरतीत्यर्थः । 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ।' 'वृद्धो जनो दुःखशतानि भुक्ने' । इह उपभोगो भुजेरर्थः । अनवने किम्-महीं भुनक्ति । २७३८ णेरणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने । (१-३-६७) एयन्तादात्मनेपदं स्यादणो या क्रिया सैव चेएण्यन्तेनोच्येत, अणो यस्कर्मकारकं स चेरणी पाठे स्थितम् । तत्र 'धुभुजे पृथिवीपालः पृथिवीम्' इत्यत्र न पालनमर्थः। तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् । नाप्यभ्यवहरणम् , असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथा 'वृद्धो जनो दुःखशतानि भङ्क्ते' इत्यपि न युज्यते, दु.खशतानां पालनस्य अभ्यवहरणस्य चासंभवात् , तत्राह इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः। महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् । न तु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् । भुजति वासः । कुटिलीभवतीत्यर्थः । गरणौ। इह चत्वार्यवान्तरवाक्यानि । णेरिति प्रथमं वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदमित्यधिकृतम् , तदाह ण्यन्तादा. त्मनेपदं स्यादिति । अणौ यत् कर्म णौ चेदिति द्वितीयं वाक्यम् । 'कर्तरि कर्मव्यतिहारे' इतिवत्कर्मशब्दोऽत्र क्रियापरः । यत्तदोनित्यसम्बन्धात् तदिति लभ्यते । तथा च अणौ या किया सा रायन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियाया ण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम् । तस्माद् अणौ या किया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह अणौ या क्रिया सैव चेएण्यन्तेनोच्येत इति । स कर्तेति तृतीयं वाक्यम् । अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते । कर्मशब्दोऽत्र कारकविशेषपरः । शब्दाधिकाराश्रयणात् , तदेतदाह अणौ यत्कर्मकारकं स चेएणौ नेपदं भवतीति द्वितीयम् , तदाह बुभुजे पृथिवीपाल इति । इहेति । उपभोग इत्युपलक्षणमात्मसात्करणस्यापि । पृथिवीं बुभुजे, स्वाधीनां चकारेत्यर्थः । भुज पालनाभ्यवहारयोरित्यस्य रुधादेरेव ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव । पाणिं विभुजति । मूलानि विभुजति । णेरणौ यत्कर्म । श्रात्मनेपदमित्यधिक्रियते । इहावान्तरवाक्यानि चत्वारि प्रतीयन्ते । णेरात्मनेपदमित्येक वाक्यम् । तच्च स्यादित्यन्तेन व्याख्यातम् । अणौ यत्कर्म णौ चेदिति द्वितीयम् । कर्मशब्दः क्रियापरः, 'कर्तरि कर्मव्यतिहारे' इतिवत् । तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः । एवं स्थिते फलितमाह सैव चेद् ण्यन्तेनोच्यतेति । स कर्तेति तृतीयं वाक्यम् । अणावित्यादि चेच्छब्दान्तमिहानुवर्तते । कर्मशब्दश्चात्र